अघोरचक्षुरित्यादिभिः षड्भिर्मन्त्रैरभिमन्त्रयेत् । प्रत्यङ्मुखी चेत्प्राङ्मुखी कार्या । अस्मिन्पक्ष उत्तरेण पश्चाद्भागे गमनं नास्ति ।
ततो भार्यां यथास्थानमुपवेश्य तदञ्जलिं प्रक्षाल्यावशेषितान्संमार्गदर्भान्गृहीत्वा वध्वञ्जलिं तैर्दर्भैरग्नौ निष्टप्य दर्वीवत्तैर्दर्भैर्वध्वञ्जलिं संमृज्य पुनर्निष्टप्य दर्भेष्वञ्जलिं निधाप्य संमार्गदर्भान्प्रोक्ष्याग्नौ प्रहृत्य संमृष्टं वध्वञ्जलिं सव्यहस्तेन धृत्वा दक्षिणहस्तेन तस्मिन्नञ्जलौ दर्व्याऽऽज्येनोपस्तीर्य "ॐ इमाल्लाँजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निरनुमन्यतामयम्" इति मन्त्रावृत्त्या द्विवारं वर एव लाजानावपति । त्रिः पञ्चावत्तिनः ।
ततस्तूष्णीमभिघार्य शूर्पस्थान्प्रत्यज्य--"ॐ इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा" [ इति ] आसीनायास्तस्या आसीन एव दर्वीस्थानीयाञ्जलिना कायतीर्थेनाग्नौ जुहोति । अग्नय इदं न मम । "निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्यात्" इति बौधायनोक्तेः कायतीर्थेन होमः । कनिष्ठयोर्मूलप्रदेशः कायं तीर्थं, "स्वल्पाङ्गुल्योर्मूले कायम्" इति कोशात् ।
मैत्रायणीयपरिशिष्टेऽपि--
"अङ्गुल्यग्रैर्न होतव्यं तथैवाञ्जलिभेदतः । |
इदं च वरकर्तृकत्वम्,--"अथग्रहणं परिभाषार्थम् । आधारवति तन्त्रे सर्वत्रैवमवदानधर्मो भवति" इत्येतद्व्याख्यानुसारेण ।
"अथग्रहणमावपनेऽन्यकर्तृकत्वख्यापनार्थं, स च भ्राता भ्रातृस्थानीयो वा"
इत्येतद्व्याख्यानुसारेण तु अत्र भ्रात्रादिः कर्ता ज्ञेयः । मन्त्रस्तु लिङ्गविरोधाद्वरस्येव न भ्रात्रादेः ।
न चाऽऽवपामीत्येतद्विरुध्यत इति वाच्यम् । अन्तर्भावितण्यर्थस्य तत्र विवक्षितत्वेन विरोधाभावात् ।
ततः "ॐ उदायुषा स्वायुषोदोषधीना रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता अनु' इति भार्यामुत्थाप्य "ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः" इति स्वयमेव मन्त्रमुक्त्वा भार्यासहितः पात्रसहितमग्निं प्रदक्षिणं परिक्रामति । मन्त्रलिङ्गाद्वरस्य मन्त्रपठनम् ।