सहस्रादिहोमे हस्तमात्रम् । अयुतादौ द्विहस्तम् । लक्षादौ चतुर्हस्तम् । दशलक्षादौ षड्ढस्तम् । कोटिहोमादावष्टहस्तं दशहस्तं वा । चतुर्विंशत्यङ्गुलैर्हस्तः । अङ्गुलं तु तिर्यङ्निहिताष्टयवप्रमाणं स्वमध्यमामध्यपर्वमितं वा ज्ञेयम् । मुष्ट्या वा चतुरङ्गुलानि । अर्धयवोनचतुस्त्रिंशदङ्गुलैर्द्विहस्तं सार्धैकचत्वारिंशदङ्गुलैस्त्रिहस्तमष्टचत्वारिंशदङ्गुलैश्चतुर्हस्तं पादोनचतुष्पञ्चाशदङ्गुलैः पञ्चहस्तं पादोनैकान्नषष्ट्यङ्गुलैः षड्ढस्तं सार्धत्रिषष्ट्यङ्गुलैः सप्तहस्तं यवोनाष्टषष्ट्यङ्गुलैरष्टहस्तं द्विसप्तत्यङ्गुलैर्नवहस्तं षट्सप्तत्यङ्गुलैर्दशहस्तं षण्णवत्यङ्गुलैः षोडशहस्तं कुण्डं स्थण्डिलं वा भवति । कुण्डाङ्गानां व्यासखातनाभिकण्ठमेखलायोनीनां सम्यग्ज्ञान एव कुण्डं युक्तं भवति । तत्करणप्रकारस्तु शान्तिप्रकरणे वक्ष्यते । स्थण्डिलं चतुरश्रमङ्गुलोत्सेधं चतुरङगुलोत्सेधं वा । समत्वपक्षे स्थूलद्रव्यहोमे तत्तत्परिमाणस्यापर्याप्तौ स्वोत्तरपरिमाणमपि ग्राह्यम् ।
यत्तु कारिकाकृतोक्तम्--
"स्थण्डिलात्तण्डुलैरेखा द्व्यङ्गुला द्व्यङ्गुलाधिका । |
तत्र मूलं चिन्त्यम् ।
आयतनस्य गोमयेनोपलेपनादिकमुक्तं संग्रह आयतनसंस्कारं प्रकृत्य--
"तद्गोमयेनोपलिम्पेत्" इति । तदग्न्यायतनम् ।
एतत्कारणमुक्तं स्मृतिरत्नाकरे पुराणे--
"सर्वत्र वसुधा मेध्या सशैलवनकानना । |
उद्धननोत्तरं यदि श्वा स्थण्डिलादावधितिष्ठति तदा प्रायश्चित्तविशेष उक्तो बौधायनेन--
"स्थण्डिलमुद्ध[१]तं गौरश्वो वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तस्य पदमभ्युक्ष्य जपति पृथिवि देवयजन्योपध्यास्ते मूलं मा हि सिषमिति कृतान्तात्कर्म प्रतिपद्यते" इति ।
([२]विकिरेन्मूत्रादिभिर्विकीर्णं कुर्यात् । अथवा सप्तम्यर्थे द्वितीया । अस्मि