पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५५९
संस्काररत्नमाला
( तिलककरणकञ्चुकीपरिधानमङ्गलसूत्रबन्धनादि )
 

 ततो वरः स्वशिरःस्थं पुष्पमादाय घृतयुतक्षीर आप्लाव्य तेन वध्वा ललाटे तिलकं कुर्यात् । एवं वधूरपि स्वशिरःस्थेन पुष्पेण वरललाटे तिलकम् ।

 ततो वधूः स्वकण्ठस्थां पुष्पमालां वरकण्ठे क्षिपेत् । वरः स्वकण्ठस्थां वधूकण्ठे ।

 ततो वरपक्षीयसुवासिन्यो वधूवरौ प्राङ्मुखावुपवेश्य नीराजनपूर्वकमाचारप्राप्तमष्टपुत्रीसंज्ञकं वस्त्रद्वयं सकञ्चुकं मङ्गलसूत्रं च वध्वै समर्प्य तयोरेकं परिधापयित्वाऽ(प्या)परमुत्तरीयं कारयेयुः । ततः कञ्चकीं परिधापयेयुः ।

 ततो वरः--

"माङ्गल्यतन्तुनाऽनेन भर्तृजीवनहेतुना ।
कण्ठे बध्नामि सुभगे सा जीव शरदां शतम्" ॥

 इतिमन्त्रेणेष्टदेवतां संस्मरंस्तत्सूत्रं वधूकण्ठे बध्नीयात् । आयुष्यं वर्चस्यमित्यादिमन्त्रैस्तां भूषयेच्च ।

 ततो हरिद्राखण्डयुतानि पञ्च पञ्च पूगीफलानि दृढान्याचाराल्लड्डुकयुतानि पात्रे निधाय वधूवरावावाहनादिदक्षिणान्तैरुपचारैर्गणानां त्वाऽऽ तू न इन्द्रेति मन्त्राभ्यां विवाहव्रतरक्षणार्थं गणपतेः पूजां कुर्याताम् । अत्र ब्राह्मणेभ्यो गणपतिप्रीतये यथाविभवं दक्षिणा देया ।

 ततः पुरोधा विवाहव्रतरक्षकं गणपतिमनुस्मृत्य हरिद्राखण्डयुतौ साक्षतौ लड्डुको तयोर्वस्त्रप्रान्ते पृथक्पृथग्बध्नीयात् । वधूवरौ विवाहव्रतसमाप्त्यन्तं तद्ग्रन्थिद्वयं न विसृजेताम् ।

 ततः पुरोधाः--'ॐ नीललोहितं भवति कृत्यासक्तिर्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते' । बृहत्सामेति मन्त्रेण च तयोरुत्तरीयान्तौ मिथो बध्नीयात् ।

 ततः सभार्यो दाता वृद्धाः पुरन्ध्र्यो ज्ञातयो बान्धवाश्च क्रमाद्यथाचारमाशीर्भिरार्द्राक्षतारोपणं कुर्युः ।

 ततो वधूः पात्रस्थसिततण्डुलपुञ्जत्रय उदक्संस्थं नाममन्त्रैर्महालक्ष्मीं पार्वतीं शचीं च क्रमेणाऽऽवाह्य दक्षिणान्तैरुपचारैः पूजयेत् । वरेणापि पूजनं कार्यमिति केचित् ।

 ततो वधूः सौभाग्याद्यभिवृद्धये महालक्ष्मीपार्वतीशचीप्रीत्यर्थं हरिद्राजीरकसौभाग्यद्रव्यपूरितवंशपात्रवायनदानानि सुवासिनीः संपूज्य ताभ्यो दद्यात् ।

 तत्र मन्त्राः--

"लक्ष्मीप्रिया च लक्ष्मीदा लक्ष्मीव सुजनप्रिया ।
सौभाग्यदा वरस्त्रीणां हरिद्रे श्रीः सदाऽस्तु मे"।

 इति हरिद्रादानमन्त्रः ।