ष्यमाणसंतत्या द्वादशावरान्द्वादश परान्पुरुषान्पवित्रीकर्तुमात्मनश्च[१] लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्याप्रतिपादनं करिष्य इति संकल्पं कुर्यात् । यद्ययं संकल्पो विवाहारम्भे कृतस्तदा नात्र कार्यः ।
ततः सपत्नीक उत्थायोदङ्मुख एव तिष्ठन्तीं प्रत्यङ्मुखीं कन्यां दक्षिणहस्ते धृत्वा--
"कन्यां कनकसंपन्नां कनकाभरणैर्युताम् । |
इति पठित्वा[२] कांस्याद्यन्यतमे तैजसे पात्रे[३] प्राङ्मुखेन तिष्ठता वरेण[४] गृहीते तिष्ठन्त्याः प्र[५]त्यङ्मुख्याः कन्याया दक्षिणे हस्ते हस्तद्वये वा सत्यवाक्षततुलसीपत्रकुशसहितमुदकं क्षिपंस्त्रयोदश वाक्यानि पठेत् । आश्वलायनो वरो दाता याजुषो विपरीतं वा तदा वध्वा हस्तोऽध उपरि वरहस्त इत्येवमाश्वलायनरीत्या वरहस्तोऽधो वधूहस्त उपरीत्येवं याजुषरीत्या वोपर्यधोभावो द्रष्टव्यः ।
ततः कन्या तारयतु, पुण्यं वर्धतां, शिवा आपः सन्तु, सौमनस्यमस्तु, अक्षतं चारिष्टं चास्तु, दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु, तिथिकरणमुहूर्तनक्षत्रसंपदस्तु, यच्छ्रेयस्तदस्तु, यत्पापं तत्प्रतिहतमस्तु, पुण्याहं भवन्तो ब्रुवन्तु, स्व[६]स्ति भवन्तो ब्रुवन्तु, ऋद्धिं भवन्तो ब्रुवन्तु, श्रीरस्त्विति भवन्तो ब्रुवन्तु, इति ।
ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणामित्यादि प्रीतय इत्यन्तं पूर्ववदुक्त्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे कन्यार्थिने श्रीधररूपिणे वराय, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनाम्नीं कन्यां वरार्थिनीं श्रीरूपिणीं यथाशक्त्यलंकृतां प्रजापतिदैवत्यां प्रजासहत्वकर्मभ्यस्तुभ्यमहं प्रतिपादय इत्युक्त्वा सयवाक्षततुलसीपत्रकुशयुतं जलं वरहस्ते क्षिपेत् । गान्धर्वराक्षसपैशाचेषु नैवं प्रतिपादनं तेषां दातृव्यापारनिरपेक्षत्वात् ।
ततो वर ॐ स्वस्तीति ॐ तथेति वा प्रतिगृह्णीयात् । अत्र दातुर्न ममेति न भवति । एवं वरस्य प्रतिग्रहमन्त्रश्च न । एवं कन्या तारयत्वित्याद्यों स्वस्ती