पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५०७
संस्काररत्नमाला
( वधूवरयोः कुलपरीक्षणम् )
 

 यस्तु कन्यादोषमनभिधाय प्रयच्छति स राज्ञा दण्ड्य इत्याह नारदः--

"यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्यात्नृपो दण्डं पूर्वसाहसचोदितम्" इति ॥

 पणशतद्वयं सप्तत्यधिकं पूर्वसाहसम् ।

 यत्तु याज्ञवल्क्येनोक्तम्--

"अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्" इति ।

 तद्दोषभूयस्त्वाभिप्रायम् । उत्तमसाहसं साशीतिपणसाहस्रम् ।

 उक्तं च प्रायश्चित्तप्रकरणे तेनैव--

"साशीतिपणसाहस्रो दण्ड उत्तमसाहसम्" इति ।

इति दत्तापहारनिर्णयः ।

अथ कुलपरीक्षा ।

 तत्राऽऽश्वलायनः--

"कुलमग्रे परीक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात्" इति ।

 ये मातृतः पितृतश्च दशपुरुषं समनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः पितृत इत्येक इत्यस्मिन्सूत्रे यथोक्तं तथाऽऽदौ कुलं परीक्षेतेत्यर्थः ।

 मनुः--

"उत्तमैरुत्तमो नित्यं संबन्धानाचरेदिह ।
निनीयुः कुलमुत्कर्षमपमानवतां त्यजेत्" इति ॥

 उत्तमलक्षणं तेनैवोक्तम्--

"विशुद्धाः कर्मभिश्चैव शृतिस्मृतिनिर्शिनः ।
अविप्लुतब्रह्मचर्या महाकुलसमन्विताः ॥
संतुष्टाः सज्जनहिताः साधवस्तत्त्वदर्शिनः ।
रागद्वेषामर्षलोभमानमोहविवर्जिताः ॥
अक्रोधनाः सुप्रसादाः कार्याः संबन्धिनः सदा" इति ।

 वर्ज्यकुलान्युक्तानि देवलेन--

"अग्रजा येषु वंशेषु स्त्रीप्रजाप्रसवास्तथा ।
पतिघ्न्यश्च स्त्रियो यत्र तानि यत्नेन वर्जयेत्" इति ॥

 अग्रजा इति स्त्री[ प्रजा ] प्रसवविशेषणम् । यत्र येषु कुलेषु, तानि कुलानि ।