सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४८७
संस्काररत्नमाला
( विवाहे प्रतिकूलविचारः )
 

 एवं कृते दर्शश्राद्धमपि तादृशाभ्यां सह कर्तव्य[]मित्यपि तेनैवोक्तम्--

"पितुःसपिण्डतां कृत्वा कुर्यान्मासानुमासिकम्" इति ।

 एवं च दर्शश्राद्धविकृतित्वान्नान्दीश्राद्धेऽपि तादृशयोर्देवतात्वसंभवेऽपि माङ्गलिकविवाहाद्यनुरोधेन तयोः सपिण्डीकरणं कृत्वैव माङ्गलिकं कर्म कार्यं तयोश्चतुष्पुरुषान्तरगतत्वात् ।

 अत एव शुभागम एव सपिण्डीकरणापकर्षनिमित्तत्वेन कालादर्शे पठ्यते--

"एकादशे द्वादशेऽह्नि त्रिपक्षे वा त्रिमासि वा ।
षष्ठे वैकादशे वाऽब्दे संपूर्णे वा शुभागमे ॥
सपिण्डीकरणस्येत्थमष्टौ कालाः प्रकीर्तिताः ।
साग्नौ कर्तर्युभावाद्यौ प्रेते साग्नावनन्तरः ॥
अनग्नेस्तु द्वितीयाद्याः सप्त कालाः प्रकीर्तिताः" इति ॥

 "अनन्तरस्त्रिपक्षः" इति "शुभस्य विवाहादेरागम उपस्थिते सति" इति च तत्रैव व्याख्याय मूलवाक्योदाहरणमित्थं कृतम्--

 "महाभारते--'सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान्' ।

 इत्युपक्रम्य 'एकादशेऽपि वा मासि मङ्गले स्यादुपस्थिते' इति" [इति ।]

"अत्र च शुभमङ्गलशब्दाभ्यां विवाहाद्येवोक्तमिति प्रतीतेर्न नान्दीश्राद्धप्रतीतिर्न[] सुतरां तद्देवतात्वस्य" इत्यपि तत्रैव ।

 सपिण्डनापकर्षे तत्पूर्वतनमासिकानामवशिष्टानामपि निवृत्तिः । तदुत्तरकर्तव्यमासिकानामप्यवशिष्टानां निवृत्तिर्वचनादिति द्रष्टव्यम् ।

"प्रेतकर्माण्यनिर्वर्त्य" इति वाक्यात्,
"भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः" ॥

 इति वाक्याच्च चतुष्पुरुषपर्यन्तं यस्य कस्यापि सगोत्रसपिण्डस्य तत्पुत्रे प्रोषितेऽपि व्यवहितोऽपि सपिण्डः प्रेतस्य प्रेतश्राद्धसपिण्डीकरणमासिकानि कृत्वैव वृद्धिश्राद्धं कुर्यादित्यर्थः ।

"प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा ।
अपकृष्यापि कुर्वीत कर्तुं नान्दीमुखं द्विजः" ॥

 इति हेमाद्रिलिखितशाट्यायनिवचोऽप्येतदर्थकमेव, प्रेतकर्मणां यावतः पुरु



  1. क. व्यमपि ।
  2. ख. नत ।