आश्वलायनेन त्वष्टौ भेदा उक्ताः । आद्यानां चतुर्णां फलविशेषश्चोक्ताः--
"अलंकृत्य कन्यामुदकपूर्वा दद्यादेष ब्राह्मो विवाहस्तस्यां जातो द्वादशावरान्द्वादश परान्पुनात्युभयत ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो दशावरान्दश परान्पुनात्युभयतः सह धर्मं चरत इति प्राजापत्योऽष्टावरानष्ट परान्पुनात्युभयतो गोमिथुनं दत्त्वोपयच्छेत स आर्षः सप्तावरान्सप्त परान्पुनात्युभयतो मिथः समयं कृत्वोपयच्छेत स गान्धर्वो धनेनोपतोष्योपयच्छेत स आसुरः सुप्तानां प्रमत्तानां वाऽपहरेत्स पैशाचो हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत्स राक्षसः" इति ।
तत्राऽऽद्यास्त्रयः प्रशस्ताः । उक्तं च धर्मसूत्रे--
"तेषां त्रय आद्याः प्रशस्ता यथा युक्तो |
तेष्वपि पूर्वः पूर्वः श्रेयानुत्तरेषूत्तरः पापीयानिति ।
आपस्तम्बोऽपि--"पूर्वः पूर्वोऽतिशयेन प्रशस्तः" इति ।
वर्णानुपूर्व्येण विवाहनियम उक्तः स्मृत्यन्तरे--
"चत्वारो ब्राह्मणस्याऽऽद्याः शस्ता गान्धर्वराक्षसौ । |
अन्त्यः पैशाचः । गर्हितो न कस्यापि प्रशस्त इत्यर्थः ।
एतत्सर्वं बौधायनोऽप्याह--
"अष्टौ विवाहाः श्रुतशीले विज्ञाय ब्रह्मचारिणेऽर्थिने ददाति स ब्राह्म आच्छाद्यालंकृत्यैनया सह धर्मश्चर्यतामिति प्राजापत्यः पूर्वं लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दद्यात्स आर्षो दक्षिणासु नीयमानास्वन्तर्वेद्यृ- त्विजे स दैवः सकामेन सकामायां मिथः संगमात्स गान्धर्वो धनेनोपतोष्याऽऽसुरः प्रसह्य हरणाद्राक्षसः सुप्तां मत्तां प्रमत्तां[१] वोपयच्छेदिति स पैशाचस्तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वः श्रेयानुत्तरेषामुत्तरः पापी[२]यानत्रापि षष्ठसप्तमौ क्षत्त्रियधर्मानुगतौ तत्प्रत्ययत्वात्क्षत्त्रियस्य पञ्चमाष्टमौ वैश्यशूद्राणामयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति कर्षणशुश्रूषाधिकृतत्वाद्गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वाद्यथा युक्तोविवाहस्तथा युक्ताः प्रजा भवन्तीति विज्ञायते" इति ।
तत्प्रत्ययत्वात्तदधीनत्वात् । अयन्त्रितकलत्रा अनियतकलत्रा विधिविरहि