पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४६३
संस्काररत्नमाला
( विवाहविहितानि नक्षत्राणि )
 

 छन्दोगसूत्रेऽपि--"पुण्यनक्षत्रे दारान्कुर्वीत" इति ।

 नक्षत्रग्रहणात्तिथ्याद्यपेक्षया नक्षत्रमावश्यकमिति तद्भाष्यम् ।

 तान्युक्तानि कात्यायनेन--

"त्रिषूत्तरादिषु स्वातौ मृगशिरसि रोहिण्यां वा" इति ।

 "उत्तराफल्गुनीहस्तचित्रा इति त्रीणि । उतराषाढाश्रवणधनिष्ठा इति त्रीणि" उत्तराप्रोष्ठपदारेवत्यश्विन्य इति त्रीणि इति हरिहरः ।

 पारिजाते बृहस्पतिरपि--

"सौम्यपैतृकहस्ताश्च मैत्रमूलाश्विवासवाः ।
त्रीण्युत्तराणि पौष्णं च रोहिणी[१] च शुभप्रदाः ॥
अन्याश्च सर्वा वर्ज्याः स्युस्ताराः पाणिग्रहे सदा" इति ।

हेमाद्रावपि--

"हस्तोत्तराणि वायव्यं भैत्रं मूलं च रेवती ।
रोहिणी सौम्यपित्र्ये च शुभं पाणिग्रहे सदा" इति ।

वसिष्ठोऽपि--

"मूलोत्तरापैतृकपौष्णमैत्रप्राजेशचन्द्रार्कसमीरणेषु ।
सदा प्रशस्तः खलु कन्यकाना पाणिग्रहो वेधविवर्जितेषु" इति ।

 उत्तरोत्तरात्रयम् । पैतृकं मघाः । पौष्णं रेवती[२]नक्षत्रम् । प्राजेशं रोहिणी । चन्द्रो मृगशिरः । अर्को हस्तः । समीरणः स्वाती ।

 आपस्त[३]म्बबौधायनौ--

"यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव
भवति नेव तु पुनरागच्छतीति ब्राह्मणावेक्षो विधिः" इति ।

 इयं भर्तुः प्रिया स्यादिति यां दुहितरं पिता कामयेत तां निष्ट्यायां स्वातौ वराय दद्यात् । सा तस्य प्रियैव भवति । नेव तु नैव च रोगदारिद्र्यादिना पीड्यमानाऽपि न पुनः पितृगेहमागच्छतीति स्वगृह एवास्याः सर्वेऽर्थाः संपद्यन्त इति ब्राह्मणावेक्षो विधिः । अत्रापि पूर्ववत्स्मार्तपुण्योक्तनक्षत्रैर्विकल्प इति सुदर्शनेन व्याख्यातम् ।

 इन्वकानिष्ट्याशब्दप्रवृत्तिनिमित्तामा[४]हतुर्बोधायनापस्तम्बौ--

"इन्वकाशब्दो मृगशिरसि । निष्ट्याशब्दः स्वातौ" इति ।



  1. ड. णीति शु ।
  2. ड. ती । प्रा ।
  3. क. ख. स्तम्बः--यां ।
  4. क. ख. माहाऽऽपस्तम्बः--"इ ।