तथा च सूत्रम्-
"तथा ब्राह्मणाना राजार्पितानां राज्ञां वा |
अथानाज्ञातबन्धूनां गोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--'अथानाज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्यप्रवरेण वा' इति ।
न, आसम्यग्ज्ञातो बन्धुर्येन सोऽनाज्ञातबन्धुस्तस्यानाज्ञातबन्धोः । असंप्रज्ञातबन्धोरिति दर्शपूर्णमासप्रकरणस्थस्य प्रवरविधायकस्य सूत्रस्य पाठः । न सम्यक्प्रज्ञातो बन्धुर्येन सोऽसंप्रज्ञातबन्धुरिति तद्विग्रहः । अर्थस्तु स एव । तस्य पुरोहितस्य पूर्वोक्तस्य प्रवरेण धर्मोपदेष्टाऽऽचार्यस्तस्य वा प्रवरेण प्रवरणमित्यर्थः ।
ननु--
“यो वा अन्यः सन्नन्यस्याऽऽर्षेयं वृणीते |
इति निषेधस्य जागरूकत्वात्कथं पुरोहिताचार्यप्रवरप्रवरणमिति चेन्न । एतस्य प्रवरज्ञानसत्त्व एव प्रवृत्तेः ।
सार्ववर्णिकमार्षेयं दर्शयति--
'अथ ह ताण्डिन एकार्षेय सार्ववर्णिक समामनन्ति मानवेति |
ताण्डिन आचार्या एकार्षेयं मानवेत्येवंरूपं प्रवरं सार्ववर्णिकं सर्वेषां वर्णानां ब्राह्मणादीनां समामनन्ति तत्र हेतुभूतां श्रुतिमुदाहरन्ति-- 'मानव्यो हि प्रजा इति हि ब्राह्मणम्' इति । हि यस्मादेवं तैत्तिरीयशाखायां ब्राह्मणं प्रत्यक्षमेव पठ्यतेऽग्निचयन उखाप्रकरणे-- 'मानव्यो हि प्रजाः' इति तस्मादित्यर्थः । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्था । एतत्सूत्रं वैशेषिकप्रवरनिषेधपरं न भवति किं तु सार्ववर्णिकप्रवरस्तुतिपरम् ।
नन्वेवं कृत्स्नमेकेषां प्र[१]वरं प्रतिषिध्य मनुवदित्येतद्विदधातीत्येतत्सूत्रविरोध इति चेन्न । अत्र प्रतिषेधशब्देनाप्राशस्त्यस्यैवोक्तत्वात् । एवं च कृत्स्नवैशेषिकप्रवराणामप्राशस्त्य उक्ते सार्ववर्णिकस्य[२] प्रशस्तत्वमर्थात्सिद्धं भवति । वैशेषिकाः प्रवरा दुर्विज्ञेया बहुप्रयासलभ्याश्च तस्मान्न कार्याः । अयं तु लघुतरप्रयत्नलभ्यत्वात्कर्तव्य इत्येवं सार्ववर्णिकस्य प्रवरस्य प्रशस्तत्वम् । कथं पुन