शब्दाः । स्तम्बशब्दो यन्नामसु वर्तते ते स्तम्बशब्दाः । एतेषां चैषोऽनन्तरोक्तस्त्र्यार्षेय एव प्रवरो भवेदित्यर्थः । द्वाभ्यां गोत्राभ्यां व्यपदेशाद्व्यामुष्यायणानि कुलानि । यथा शौङ्गशैशिरय इति पुरातनं द्व्यामुष्यायणकुलम् । इदानींतनानां द्विगोत्राणां द्वयोरपि गोत्रयोरविवाहं वक्तुं दृष्टान्तत्वेनोदाहृतं शुङ्गा भरद्वाजाः कताः शैशिरयो विश्वामित्राः । भारद्वाजस्य शुङ्गस्य बीजाद्वैश्वामित्रस्य शैशिरेः क्षेत्र उत्पन्नाः शौङ्गशैशिरय इत्युच्यन्ते । तत्संततिजातानां पञ्चार्षेयः प्रवरो द्रष्टव्यः । आङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षिलेति होतुः । अक्षिलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्योः । त्र्यार्षेयमेक आङ्गिरसकात्याक्षिलेति होतुः । अक्षिलवत्कतवदङ्गिरोवदित्यध्वर्योः । अस्मिन्प्रवरे जनयितुः पूर्वः प्रवरः प्रतिग्रहीतुरपरो यथोक्तस्तथाऽन्येष्वपि पुत्रिकापुत्रदत्तकक्रीतकृत्रिमपुत्रादीनामपि द्वयोरपि गोत्रयोः प्रवरो ज्ञेयः । शौङ्गशैशिरीणां दृष्टान्तत्वेनोपादानात् । सर्वेषां द्व्यामुष्यायणानां गोत्रद्वयसंबन्धिवरणप्रसक्तौ व्यवस्थामाहाऽऽश्वलायनः--
"तेषामुभयतः प्रवृणीत एकमितरतो द्वावितरतो द्वौ वेतरतस्त्रीनि- |
एकमितरतो द्वावितरत इति त्र्यार्षेये द्वौ वेतरतस्त्रीनितरत इति पञ्चार्षेये । तत्र पूर्वं कस्य प्रवर इत्याकाङ्क्षायां कात्यायनलौगाक्षी आहतुः--
"पूर्वः प्रवर उत्पादयितुरुत्त[१]रः प्रतिग्रहीतुः" इति ।
एवं वक्ष्यमाणेषु संकृत्यादिष्वपि द्रष्टव्यम् । गर्गाणां भरद्वाजत्वं पाक्षिकभरद्वाजवरणादेव सिद्धम् ।
यद्यपि कपीनां पाठः केवलाङ्गिरोगणमध्ये सर्वेषु सूत्रपुस्तकेषु दृश्यते तथाऽपि स नाऽऽदर्तव्यः । गोत्रप्रवरमञ्जरीप्रयोगपारिजातस्मृत्यर्थसारादिबहुग्रन्थविरोधाद्बहुस्मृतिपुराणसूत्रविरोधात्, भारद्वाजैः सह विवाहः केवलाङ्गिरोभिः सह विवाह इत्येतादृशस्य शिष्टाभिमताचारस्यान्यथात्वापत्तेश्च । अथवा द्वौ कपी ज्ञेयौ । एको भरद्वाजगणस्थः । अपरः केवलाङ्गिरोगणस्थः ।
तथाच मण्डनः--
"भारद्वाजप्रवरणे केचिदाहुः कपी पृथक्" इति ।
- ↑ क. ङ. त्तरतः प्र ।