चतुर्विधा हि शुनकाः । केचिच्छुनकादेवजाताः । केचिद्गृत्समदादेवजाताः । केचिद्भृगोरपत्यं गृत्समदस्ततो जाताः । केचिद्भृगोरपत्यं शुनगोत्रस्तदपत्यं गृत्समदस्ततो जाताः । तत्र गृत्समदादेव ये जातास्तेषामेवायं प्रवरो नान्येषामित्येतदर्थं गृत्समददृष्टाप्रीप्रापणार्थं च गार्त्समदा इति विशेषणम् । इतरेषां तु सूत्रान्तरोक्ताः प्रवरा ज्ञेयाः । तत्राऽऽद्यानां शौनकेत्येकार्षेयः प्रवरः । तृतीयानां भार्गवगार्त्समदेति द्व्यार्षेयः । चतुर्थानां भार्गवशौनहोत्रगार्त्समदेति त्र्यार्षेय इति । एकार्षेयेऽमुतोऽर्वाञ्चो होताऽत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीत इत्यनयोर्विध्योर्व्यवस्थापकत्वाभावादव्यवस्थाप्राप्तौ होत्रध्वर्युग्रहणं तद्धितान्तो होतुः प्रवरो वत्प्रत्ययान्तोऽध्वर्योरित्येवं व्यवस्थेतिप्रदर्शनार्थम् । मित्रयुवां वाघ्र्यश्वा इति विशेषणं वाघ्र्यश्वदृष्टाप्रीप्राप्त्यर्थम् । वाघ्र्यश्वेति होता वघ्र्यश्ववदित्यध्वर्युरित्यत्र होत्रध्वर्युग्रहणमुक्तव्यवस्थायास्तत्रैव प्राप्तिशङ्कानिरासार्थम् । इतीमे भृगवो व्याख्याताः ।
उक्तानुभाषणस्येदं प्रयोजनमविद्यमानभृगुशब्दानामपि शुनकमित्रयुवां भृगुत्वं यथा स्यादिति । तेन भृगूणां त्वेति यथर्ष्याधाने भार्गवो होता भवतीत्यादौ चोपप्रवेशसिद्धिः । जामदग्न्यवत्सानां जामाल्यादीनां च परस्परमविवाहः । प्रवरैक्यात्सगोत्रत्वाच्च । एवमार्ष्टिषेणानामपि त्रिप्रवरसाम्यात् । यद्यपि त्रिप्रवरार्ष्टिषेणानां नान्यैः सह द्विप्रवरसाम्यं तथाऽपि पञ्चार्षेयसंगतमपि प्रवरसाम्यमेष्वविवाहप्रयोजकम् । वत्सा विदा आर्ष्टिषेणा इत्येतेषामविवाह इति बौधायनोक्तेः । अजामदग्न्यवत्सार्ष्टिषेणाभ्यां सप्रवरत्वादविवाहः । वीतहव्यादीनां तु स्वं स्वं गणं हित्वा परस्परं पूर्वैश्च सह विवाहो भवत्येव, द्वित्रिप्रवरसाम्याभावात् ।
इति भृगुगोत्रप्रवरकाण्डम् ।
अथ गौतमगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--
"अथातोऽङ्गिरसामयास्या गौतमास्तेषां त्र्यार्षेय आङ्गिरसाया- |