पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४०५
संस्काररत्नमाला ।
( प्रजोत्पादनस्याऽऽवश्यकता )
 

त्पादनस्याधीनता दर्शिता । अनुकर्षशब्द एकांशभूतः शब्दः प्रजैकांशभूतः पुत्ररूपशब्दः प्रजां दर्शयति नतु केवलपुत्रमात्रं ब्रूते किंतु गौण्या वृत्त्या कन्यारूपां प्रजामपि ब्रूत इति । प्रजोत्पादने कृतेऽनुत्सन्नप्रजावान्भवति । प्रजोच्छेददोषो न भवतीति तात्पर्यार्थः । यावद्यावत्कालमेनं प्रजोत्पादकं प्रजाऽनुगृह्णीते तस्मिन्ननुग्रहं करोति तावत्कालमक्षय्यं लोकं जयति । बह्वी प्रजा जाता चेद्बहुकालमक्षय्यलोकजयः । स्वल्पा चेत्स्वल्पकालमक्षय्यलोकजय इत्यर्थः । पुत्रस्य समीचीनत्व एवाऽऽत्मनस्तारणं नान्यदिति सत्पदेन सूच्यते । केवलमात्मतारणमेव न, किं तु अन्येषामपि तारणमित्यस्मिन्नर्थे ब्रह्मवादिनां संमतिं दर्शयति सप्तावरानित्यादिनाऽधीच्छाम इत्यन्तेन । यतस्तरणं सत्पुत्राधीनमतस्तमेवाधीच्छाम इति ब्रह्मवादिन आहुरिति शेषः । उपसंहरति-- यस्मात्प्रजासंतानमित्यादिना । यस्मात्प्रजासंतानमुत्पाद्य फलं यथोक्तं फलमाप्नोति तस्मात्प्रजामवश्यमुत्पादयेत् । संतानशब्दः संततिवाचकः । संतानशब्दस्य पर्यायतां दर्शयितुं संतानवचनम् । अथवा संतानशब्दः प्रजाबाहुल्यावश्यकत्वं द्योतयितुम् । एष्टव्या बहवः पुत्रा इत्यस्ति चात्र स्मृतिरपि । फलं यथोक्तम् । आत्मवान्बलवान् । फललाभाय यथोक्तफललाभाय । यस्माद्विज्ञायते च--आत्मा वै पुत्रनामाऽसीतिश्रुतिस्तस्मात्सत्पुत्रं चोत्पाद्याऽऽत्मानमेवोत्पादयेदित्यन्वयः । ए[१]वमेवं च जीवता पुरुषेण पुत्रो द्वितीयः स्वस्याऽऽऽत्मैव द्रष्टव्यः । यो यथा पुत्रमुत्पादयति स तथा भवति । सत्पुत्रोत्पादने सन्नेव भवति । असत्पुत्रोत्पादने त्वसन्नेव । अक्षेत्रे स्वीयक्षेत्रातिरिक्ते निषिद्धे बलात्कारेणोपभुक्ते च क्षेत्रे । अक्षेत्रे यः पुत्र उत्पाद्यते स आत्मावमान एवं यस्मात्तस्मात्स्वक्षेत्रे यथोक्तकाल एवाऽऽत्मानमुत्पादयेत् । केवलमवमान एव न, किं तु निषिद्धक्षेत्रे पुत्रोत्पादने तद्रूपत्वमपीत्यर्थः । आदित आदौ विवाह एवं क्षेत्रं भार्यामनुलक्षीकृत्यैवेच्छेत्प्रजोत्पादनाय । अनेन परीक्षा संगृहीता भवति । सवर्णं सजातीयम् । आदित इत्यस्य प्रथममित्यर्थः। सार्वविभक्तिकस्तसिः । तेन क्षत्रियवैश्यजातीययोः कन्ययोरपि भार्यात्वेन संग्रहः सिद्धो भवति । उपदेशेन[२] विधिना विवाहविधिना संस्कृ[३]तं क्षेत्रम् । दारशब्दः पुंलिङ्गे वर्तते । एकवचनं छान्दसम् । तस्मिन्दारे सवर्णे संस्कृते संयोगेन संबन्धेन[४] विधिपूर्वकमैथुनेन । यदि संयोगे सत्यपि प्रजोत्पादनं न भवति तदौषधसंयोगमन्त्रसंयोगावपि कर्तव्यौ । संयोगः प्रयोगः । तस्यौषधमन्त्रसंयोगस्योपदेशेन वैद्यकमन्त्रशास्त्रोपदेशेनैव, ज्ञानमिति शेषः । श्रुतिर्जायमानो वा


  1. ग. एवं ।
  2. क. न शास्त्रेण सं ।
  3. क. स्कृतम् ।
  4. क. न । य ।