पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अद्भुतसूचितारिष्टशान्तिः]
४०१
संस्काररत्नमाला ।

“ॐ पूषा गा अन्वेतु नः० नोतु नः" इत्यनेन मन्त्रेण वा प्रतिष्ठमानानां गवामनुमन्त्रणम् ।

 "ॐ इमा या गाव आगमन्नयक्ष्मा बहुसूवरीः । नद्य इव स्रवन्तु समुद्र इव निषिञ्चतु" इति गा आयतीः प्रतीक्षते ।

 "ॐ स स्थाः स्थ संस्था वो भूयास्थाच्युताः स्थ मा मा च्योढ्वं माऽहं भगवतीभ्यश्चयौषीः" इत्यागत्यैकत्रावस्थिता गा अनुमन्त्रयते ।

 ऊर्जा वः पश्यामि सहस्रपोषमित्यनयोरग्निर्गा यजुः । गोष्ठगतगोप्रतीक्षणे विनियोगः । "ॐ ऊर्जा वः पश्याम्यू० रामदः" "ॐ सहस्रपोषं० यः श्रयन्ताम्" इति द्वाभ्यां गोष्ठगता गाः प्रतीक्षते ।

 अथवा सहस्रपोषं वः पुष्यासमित्येतावानेव मन्त्रो न तु श्रयन्तामित्येतदन्तः ।

 ततो गवां मध्य उल्लेखनादिविधिना संस्कृत आयतने पावकनामानं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । औपासने होमक्रियापक्षे नोल्लेखनादि प्रतिष्ठापनान्तम् ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वत्सव्यतिरिक्तगोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे, जातवेदसं द्वाभ्यां पयआहुतिभ्यां यक्ष्ये । पावकं द्वाभ्यां पयआहुतिभ्यां यक्ष्ये । अङ्ग होमे वरुणमित्यादि पवित्राभ्याधानान्तं कर्म कुर्यात् । तत्राऽऽज्यपर्यग्निकरणकाले पयसोऽपि पर्यग्निकरणमिति विशेषः ।

 ततः परिधिपरिधानादिव्याहृतिहोमान्तं कर्म कुर्यात् । ततः प्रधानहोमः ।

 उद्दीप्यस्व मा नो हिं सीदित्यनयोर्याज्ञिक्यो देवता उपनिषदो जातवेदा अनुष्टुप् । गोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थकर्मप्रधानपयोहोमे विनियोगः । "ॐ उद्दीप्यस्व जात० शो दिश स्वाहा" जातवेदस इदं न मम । "ॐ मा नो हि सीज्जात० पातय स्वाहा" जातवेदस इदं न मम ।

 अपामिदं न्ययनं नमस्ते हरस इत्यनयोरग्निः पावको बृहती । गोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थकर्मप्रधानपयोहोमे विनियोगः । "ॐ अपामिदं न्य० वो भव स्वाहा" पावकायेदं न मम । "ॐ नमस्ते ह० भव स्वाहा" पावकायेदं न मम ।


५१