स्वाभाविकं स्वभावतः कृष्णं कम्बलादि तदपि न वसीत । उद्भासनशीलमुद्भासि तदन्यदनूद्भासि । छान्दसो दीर्घः । एवंभूतं वासो वसीतापकृष्टं निकृष्टं जीर्णं मलवत्स्थूलं च तद्विपरीतमप्रकृष्टं, तादृशं च वासो वसीत शक्तिविषये शक्तौ सत्यामिति व्याख्यातमुज्ज्वलाकृता ।
- अन्यच्च तत्रैव-- "बाहुभ्यां च नदीतरम्" इति ।
पूर्वसूत्राद्वर्जयेदित्यनुवर्तते । तरं तरणं बाहुभ्यां नदीतरणं वर्जयेदित्यर्थः । बाहुभ्यामितिवचनात्प्लवादिना तरणे न दोष इति व्याख्यातं तेनैव ।
तथा--"न नक्तं स्नायान्न नग्नः स्नायात्" इति, तथा--"न नग्नां स्त्रियमीक्षेत" इति । एतच्च मैथुनादन्यत्र ज्ञेयम् ।
"अन्यत्र मैथुनान्न नग्नां स्त्रियमीक्षेत्" इत्याश्वलायनोक्तेः ।
तथा--"उपेतः स्त्रीणामुपेतस्य चोच्छिष्टं वर्जयेत्" इति ।
उपेतः कृतोपनयनः समावृत्तः स्त्रीणामुपेतस्य चोच्छिष्टं न भुञ्जीतेति व्याख्यातं तेनैव । बाहुभ्यां च नदीतरमितिगौतमसूत्रे नदीग्रहणं तडागाद्युपलक्षणार्थम् । बाहुग्रहणं तु विवक्षितमिति हरदत्तः ।
आश्वलायनः--"वर्षति न धावेन्न वृक्षमारोहेन्न कूपमवरोहेत्" इति । |
धर्मसूत्रे--"वत्सतन्तीं च नोपरि गच्छेत्" इति । वत्सतन्ती वत्सबन्धनरज्जुः । वत्सशब्दो गोजातेरुपलक्षणमिति व्याख्यातमुज्ज्वलाकृता । एवं गौतमोक्तिव्याख्यावसरे हरदत्तोऽपि ।
- अन्यच्च--"अग्निं ब्राह्मणं चान्तरेण नातिक्रामेद्ब्राह्मणांश्च नाग्निमपश्च युगपद्धारयेदग्नीनां च संनिवापं वर्जयेदवचनात्प्रतिमुखमग्निमाह्रियमाणं नाप्रतिष्ठितं भूमौ प्रदक्षिणी कुर्वीत पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत्" इति ।
ब्राह्मणांश्चेत्यत्र चकारोऽन्तरेण नातिक्रामेदित्यनुकर्षणार्थः । वचनाभाव एकस्मिन्नग्नावग्न्यन्तरस्य संनिवापो निवपनं वर्जयेत् । प्रतिमुखमभिमुखमाहियमाणमग्निं भूमावप्रतिष्ठितमस्थापितं न प्रदक्षिणी कुर्वीत । आत्मनः स्वस्य पृष्ठतः पृष्ठे, चकाराच्छिरसि पाणी हस्तौ न संश्लेषयेत् । युगपन्न योजयेदित्यर्थः ।
- देवलः--
"अग्नौ न प्रक्षिपेदग्निमद्भिर्न शमयेत्सदा" इति । |
सदेतिवचनाद्गृहदाहादिके निमित्ते न दोष इति गम्यते ।
- धर्मसूत्रे--
"पदा पादस्य प्रक्षालनं वर्जयेत्" इति । |