तिथीनां सूत्र इतिशब्देन संग्रहो द्रष्टव्यः । विवाह्यस्य तु केवलं मधुपर्क एव न तु गौरधिका ।
ऋत्विग्भ्यो देयानां गवां संख्याविशेष उक्तो बौधायनगृह्ये-- 'नानामहर्त्विग्भ्यो गाः प्राहैकां होत्रकेभ्यः सर्वेभ्यो वैकां विभवात्' इति ।
उत्सर्गपक्षे विशेष उक्तस्तेनैव--"तस्यामुत्सृष्टायां मेषमजं वाऽऽलभत आरण्येन वा मांसेन न त्वेवामांसोऽर्घः स्यादशक्तौ माषान्नम्' इति ।
अन्यच्च तेनैवोक्तं-- 'महयेदृत्विजमाचार्यं चाऽऽत्मानं वा एष महयति यः स्वमृत्विजमाचार्यं च महयति' इति ।
महयति पूजयतीत्यर्थः ।
अथात्यातुरस्य समावर्तनानुकल्पः ।
तत्राऽऽपस्तम्बः--'अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति' इति ।
व्याख्यातमेतत्सुदर्शनेन--"अथापरमेतद्विधानमुच्यत इति शेषः । तीर्थे पुण्यनद्यादौ । समिधं पालाशीम् । एवकाराच्चास्मिन्विधौ नान्यत्किंचिदनुष्ठेयम्" इति ।
प्रयोगस्तु--ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा वासोन्तरपरिधानादि कृत्वा श्रोत्रियागारादग्निमाहृत्य यत्र क्व चाग्निं विधिनोपसमाधाय तत्र प्रजापतिं मनसा ध्यायंस्तूष्णीमेव समिधमादधाति । केशश्मश्रुवपनादिकमन्यदप्यविरोधि तूष्णीमेव कर्तव्यमिति । अत्र क्रमः-- संकल्प्य मेखलादीनि त्यक्त्वा वपनं ततस्तीर्थे स्नानमिति । परिधानादीत्यादिपदेन द्विराचमनं तिलकधारणं च । वपनादिकमित्यादिपदेन नखनिकृन्तनमिति ।
समावर्तनस्य फलमाहाऽऽश्वलायनः--'महाभूतं स्नातको भवतीति विज्ञायते' इति । स्नातको हि महद्भूतं श्रूयते । कथं पुनः स्नातकस्य महत्त्वम् ।
- उच्यते--
"देवैश्चापि मनुष्यैश्च तिर्यग्योनिभिरेव च । |
स्मृत्यन्तरं च--
"पृथिव्यादिपञ्चकवदुपकारान्करोति यत् । |