मनुरपि--
"अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । |
प्रायश्चित्तसूत्रेऽपि--
- "यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत भूमावेककपालं पशुपुरोडाशं श्रपयित्वाऽप्स्ववदानैश्चरन्ति नैर्ऋतः प्राजापत्यो वा रक्षोदेवत इत्येकेषां यमदेवत इत्येकेषाम्" इति ।
आहिताग्निर्ब्रह्मचर्यकाले स्त्रियमुपेयात्तस्यायं विधिः । आहिताग्न्यधिकारात् । अथवा प्रसिद्धब्रह्मचारिण एव ग्रहणं रुढेर्बलीयस्त्वात् ।
उक्तं च ब्रह्मचारिधर्मेषु--
"गर्दभेनावकीर्णी निर्ऋतिं पाकयज्ञेन यजेत" इति । |
न चैवमस्याऽऽनर्थक्यं देवताविकल्पार्थत्वात् । न चाऽऽहिताग्न्यधिकारे वचनानुपपत्तिः । देवताभेदश्रौतप्रयोगविधानार्थत्वेनोपपत्तेः । तस्माद्ब्रह्मचर्यार्थत्वेऽपि न दोषः ।
तदुक्तं भरद्वाजेन--
"यो ब्रह्मचारी स्त्रियमुपेयादिति कस्यायं वाद |
तत्र त्वाहिताग्नेर्व्रातपत्यादि प्रायश्चित्तं द्रष्टव्यम् ।
यथोक्तम्-- "व्रत्येऽहनि मांसं नाश्नाति न स्त्रियमुपैति यदि दीक्षितोऽवकिरेत्" इत्यादि ।
भूमावित्यनेनाग्न्यायतनमध्ये प्रकृतितो हविःश्रपणं प्राप्तं तद्बाधित्वाऽनेनाग्न्यायतनाद्बहिःश्रपणं विधीयते । तेनाग्न्यायतनाद्बहिरेवैकं कपालमङ्गारोपरि संस्थाप्य तदुपर्यङ्गारं निधाय वेदेनाङ्गारानध्यूहेत् । अथवाऽऽयतनमध्य एव भूमौ न भस्मनीत्येतदर्थम् । न च भूमाविति कपालबाधनार्थमिति वाच्यम् । एककपालपदवैयर्थ्यापत्तेः । एकस्मिन्कपाले संस्कृतः पुरोडाश एककपालस्तं तस्मिन्कपाले श्रपयेत् । श्रपयित्वाऽस्ववदानैर्वपापुरोडाशाङ्गावदानैश्चरेयुः । न चैकादशावदानान्यवद्यतीति श्रुत्याऽवदानशब्देनाङ्गानामेव बोधनेन कथमत्र तदितरपुरोडाशप्रचारेऽषामधिकरणत्वमिति वाच्यम् । श्रपणोत्तरभावित्वेन पुरोडाशप्रचारेऽप्यपामधिकरणत्वे बाधकाभावात् । न चैवं पुरोडाशप्रचार एवाप्स्वस्त्वङ्गप्रचारस्तु
- ↑ घ. ङ. ताग्निरि ।