"प्रत्येकं कृच्छ्रमेकैकं चरित्वाऽऽज्याहुतीः शतम् । |
इत्याश्वलायनोक्तेः ।
अत्र प्रायश्चित्ते स्नानसमानकर्तृकत्वश्रवणाद्बटोरेव कर्तृत्वम् । प्रायश्चित्तोत्तरकालमेतानि समावर्तनेन सह कर्तव्यानीति प्रयोगपारिजाते । तत्र मूलं मृग्यम् । एतच्च प्रायश्चित्तं बुद्धिपूर्वविषयम् ।
यत्तु मनूक्तं--
"वेदोदितानां नित्यानां कर्मणां समतिक्रमे । |
इति तदबुद्धिपूर्वविषयम् ।
अग्निकार्यभिक्षालोपविषये स्मृत्यर्थसारे--
"स्नात्वाऽष्टोत्तरसहस्त्रं गायत्रीजपः कार्यः । |
भिक्षालोपेऽष्टोत्तरशतम्" इत्युक्तम् ।
एतच्च सकृल्लोपविषयम् । बौधायनोक्तं तु द्व्यादिषष्ठान्तलोपे ।
अत ऊर्ध्वं तु--
"भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः । |
इति याज्ञवल्क्योक्तं द्रष्टव्यम् । एतच्च कार्यव्यासङ्गादिनाऽग्न्यादित्यागे ।
तदभावे तु--
"अकृत्वा भैक्षचरणमसमिध्य च पावकम् । |
ब्रह्मचारिणो मधुमांसाशने प्रायश्चित्तमुक्तं शातातपेन--
"ब्रह्मचारी तु योऽश्नीयान्मधु मांसं तथैव च । |
मौञ्जीहोमः पुनरुपनयनम् ।
देवलः--
"ब्रह्मचारी यदाऽश्नीयान्मधु मांसमकामतः । |
अन्यच्च--
"भिक्षाटनमकृत्वा यः सेवकान्नमुपाश्नुते । |
- ↑ ङ. यत्र्याऽष्ट ।