विपरीतं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण हुत्वाऽग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा ब्रह्मणे स्वाहा प्रजापतये स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा, ऋतुभ्यः स्वाहा संवत्सराय स्वाहा वरुणाय स्वाहाऽरुणाय स्वाहा । एकादशव्रतहोमानाज्येन जुहुयाद्यथालिङ्गं त्यागः ।
पुनर्मामित्यनुवाकस्थमन्त्राणामरुणा ऋषयः सूर्यो देवता प्रथमस्यानुष्टुब्द्वितीयस्य द्विपदा त्रिष्टुप्तृतीयस्य द्विपदा गायत्री चतुर्थस्यानुष्टुप् । उदुम्बरसमिदाधाने विनियोगः--
"ॐ पुनर्मामैत्वि० मैतु मा" इत्येकां समिधमादधाति । 'ॐ यन्मेऽद्य रेतः० द्यदापः' इति द्वितीयाम् । 'ॐ इदं तत्पुनरा० र्चसे' इति तृतीयाम् । 'ॐ यन्मे रेतः प्र० जसं कुरु" इति चतुर्थीम् ।
तत इमं म इत्यादिहोमशेषं समापयेत् । जयाद्युपहोमा वैकल्पिकाः । न त्रिवृदन्नहोमः ।
अथ ब्रह्मचारी अग्ने व्रतपत इत्यादिमन्त्रचतुष्टयस्य सोम ऋषिः । अग्न्यादयः क्रमेण देवताः । यजुः । उपस्थाने विनियोगः--"ॐ अग्ने व्रत० ष्यामि, वायो व्रतपते०, आदि० व्रतानां०" इत्येतैरग्न्यादीनुपतिष्ठते ।
न नक्तं भुञ्जीत न हरितयवान्प्रेक्षमाण इत्यादयः प्रवर्ग्यधर्मा अत्रापि भवेयुः ।
तत आचार्यो दूर्वादर्भान्धारयमाणस्तूष्णीं मदन्तीरुपस्पृश्य, भद्रं कर्णेभिरित्यनयोः शान्तिमन्त्रयोररुणा ऋषयो देवा इन्द्रो वृद्धश्रवाः पूषा विश्ववेदास्तार्क्ष्योऽरिष्टनेमिर्बृहस्पतिश्चेति देवताः । त्रिष्टुप्छन्दः । ॐ शान्तिः शान्तिः शान्तिरित्यस्यारुणा ब्रह्म यजुः । शान्त्यर्थं जपे विनियोगः-- "ॐ भद्रं कर्णे० शान्तिः" इति शान्तिं जपित्वा भद्रं कर्णेभिरिति द्वयोर्मन्त्रयोः पूर्ववद्दृष्याद्युक्त्वा जपे विनियोग इति विनियोगं च स्मृत्वा "ॐ भद्रं कर्णेभिः । स्वस्ति न इन्द्रो० दधातु" इति द्वे ऋचौ पठित्वा, आपमापामिति पञ्चानां महानाम्नीसंज्ञकर्चामरुणा ऋषयः । तत्तद्विशेषणविशिष्टा आपो देवताः । अनुष्टुप्छन्दः । मदन्त्युदकस्पर्शने विनियोगः--"ॐ आपमापाम० मुदीषत" इति पञ्चभिर्महानाम्नीभिर्ऋग्भिर्मदन्त्युदकं स्पृशेत् । अन्तेवासि[१]नाऽपि दूर्वादर्भधारणादि मदन्त्युदकस्पर्शनान्तं कारयेत् ।
- ↑ घ. ङ. सिनमपि ।