भ्याम् । तनुभूतरज्जुवेणुदलव्यतिरिक्तेनान्येन पाषाणखण्डादिना यः शिष्यं हन्ति प्रहरति राज्ञा स शास्य इत्यर्थः । एतच्च शिरसि न कार्यम् ।
तथा च मनुः--
"पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन । |
उत्तमाङ्गं शिरः ।
- यमः--
"योऽर्थार्थी सन्द्विजोऽध्यायान्पाठयेत्तु विधानतः । |
अध्याया वेदाः । अनध्याये चेत्यत्र चकारः पूर्वार्धस्थस्य द्विजोऽध्यायान्पाठयेदित्यस्यानुकर्षणार्थः ।
वसिष्ठः--
"यो हि विद्यामधीत्यार्थिने न संप्रददाति न स धर्मभाग्भवति" इति । |
विद्यादानस्य फलमाह संवर्तः--
"विद्यादानेन महति ब्रह्मलोके महीयते" इति । |
इति संक्षेपेणाध्यापकधर्माः ।
अथ संक्षेपेणाध्येतृधर्माः ।
तत्र मनुः--
"अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । |
अत्र द्विराचमनमुक्तं कूर्मपुराणे--
"स्नानान्तेऽध्ययनारम्भे कासश्वासागमे तथा । |
ब्रह्माञ्जलिस्वरूपं तु स एवाऽऽह--
"संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः" इति । |
संहत्य संहतौ कृत्वेत्यर्थः ।
अत्राऽऽदावुपसंग्रहणमुक्तं धर्मसूत्रे--
"उदिते त्वादित्य आचार्येणाध्ययनाय समेत्योपसंग्रहणम्" इति । |
तत्प्रकारस्तूपनयनप्रकरण उक्तः ।
- ↑ ग. विक्रवि(यि)कं ।