पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०८
[वेदार्थर्ष्यादिपरिज्ञानफलम्]
भट्टगोपीनाथदीक्षितविरचिता--
( वेदाध्ययनमुहूर्तः )
 

स्वः स्वर्गं गच्छेदित्यर्थः । स हर्षिर्विप्र इति पाठे स ऋषिर्ऋषितुल्यो विप्र इत्यर्थः । हेति निपातोऽवधारणार्थः ।

 ऋषिपरिज्ञानफलमप्युक्तमनुक्रमणिकायाम्--

"एतानृषीन्यजुर्वेदं यः पठन्वेद वेदवित् ।
ऋषीणामेति सायुज्यं सालोक्यं ब्रह्मणस्तथा" इति ॥

 यो वेदविद्यजुर्वेदं पठन्नेतानुक्तानृषीन्वेद स ऋषीणां सायुज्यं ब्रह्मणः सालोक्यं चैतीत्यर्थः । सर्वोऽपि वेदः सार्थोऽध्येतव्यः ।

 तदुक्तं पराशरेण--

"ज्ञातव्यः सर्ववेदार्थः सर्वकर्मप्रसिद्धये ।
पाठमात्रमधीयानः पङ्के गौरिव सीदति" इति ।

 पङ्के कर्दमे ।

यास्कोऽपि--

"यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।

स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा" इति ॥

 मीमांसकैरपि सार्थवेदाध्ययनम् 'अथातो धर्मजिज्ञासा' 'अथातो ब्रह्मजिज्ञासा' इति पूर्वोत्तरमीमांसादिभूतयोः सूत्रयोर्व्याख्यावसर उक्तम् ।

 यजुर्वेदस्वरूपं त्रिभाष्यरत्ने--

"यजुर्वेदः पिङ्गलाक्षः कृशमध्यो बृहद्गलः ।
बृहत्कपोलः कृष्णाङ्घ्रिस्ताम्रः कश्यपगोत्रजः" इति ।

 चरणव्यूहे प्रादेशमात्रत्वमप्युक्तम् ।

 अथाध्ययनमुहूर्तः संग्रहे--

"उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ।
विद्यारम्भे व्रतोद्देशे क्षौरे चैव विशेषतः" इति ।

 स्मृतिसारे--

"विद्यारम्भो व्रतं क्षौरं न भवेत्तु गलग्रहे" इति ।

 गलग्रहास्तूपनयनकालनिरूपण उक्ताः ।

 वारानाह मार्कण्डेयो विद्यारम्भं प्रकृत्य--

"वारे दिनेशभृगुसुज्ञबृहस्पतीनां विद्वानसौ भवति" इति ।

 दिनेशः सूर्यः । भृगुः शुक्रः । सुज्ञो बुधः ।