पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुनरुपनयने कारणानि]]
२७९
संस्काररत्नमाला ।
( प्रत्यन्तदेशगमने सापवादः पुनःसंस्कारः )
 

"गृञ्जनं चुक्रिकां चुक्रं गाजरं पोतिकां तथा" ॥

 इति ब्राह्मे पृथङ्निर्देशानुपपत्तेः । चुक्रिका 'चुक्का' इति भाषया प्रसिद्धा । चुक्रमत्यम्लं दधि । पोतिका 'पोई' इति प्रसिद्धा । एतच्च पुनरुपनयनं बुद्ध्या भक्षणे । अबुद्ध्या भक्षणे तु तप्तकृच्छ्रमात्रम् ।

"छत्राकं लशुनं चैव पलाण्डुं गृञ्जनं तथा ।
चत्वार्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद्द्विजः" इति बृहस्पत्युक्तेः ।

 पलाण्ड्वाद्येकनाश्यरोगे तु नैष दोषः ।

 तथा च पलाण्ड्वाद्यनुवृत्तौ सुमन्तुः--

"एतान्येवाऽऽतुरस्य भिषक्क्रियायामप्रतिषिद्धानि" इति ।

 गौतमः--

"उष्ट्रीक्षीरमानुषीक्षीरप्राशने पुनरुपनयनं तप्तकृच्छ्रं च" इति ।

 प्राशनाभ्यास एतदिति शूलपाणिः । ([१]अविखरोष्ट्रीक्षीरप्राशने पुनरुपनयनं तप्तकच्छ्रं चेति ) ।

 स्मृत्यन्तरे--

"रेतोमूत्रपुरीषाणां गौडीमाध्व्योश्च भक्षणे ।
क्रव्यादपशुविष्ठानां संस्काराच्छुद्धिरिष्यते" इति ।

 मनुः--

"अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः" इति ॥

 एतदतीतसुरासंपर्कविषयम् । तप्तकृच्छ्रपूर्वकश्चैष विधिर्ज्ञेयः । तप्तकृच्छ्रपूर्वकं पुनःसंस्कारं प्रकृत्य 'मूत्रपुरीषकुणपरेतसां प्राशने चैवम्' इति गौतमोक्तेः ।

 बृहस्पतिः--

"रेतोमूत्रपुरीषाणां शुद्ध्यै चान्द्रायणं चरेत्" इति ।

 रेतोमूत्रपुरीषाणामित्यनन्तरं प्राशन इति शेषः । अत्र चान्द्रायणतप्तकृच्छ्रयोर्ज्ञानाज्ञानाभ्यां व्यवस्था ज्ञेया । संस्कारस्तूभयत्र तुल्य एवेति शूलपाणिः ।

 पाद्मे--

"प्रेतशय्याप्रतिग्राही पुनःसंस्कारमर्हति" इति ।

 स्मृत्यन्तरे--

"सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति" इति ।

 एतच्च तीर्थयात्रां विना गमने ।

"तीर्थयात्रां विना गत्वा पुनःसंस्कारमर्हति" इति बौधायनोक्तेः ।

 मार्कण्डेयः--

"खरमारुह्य विप्रस्तु योजनं यदि गच्छति ।
तप्तकृच्छ्रत्रयं प्रोक्तं शरीरस्य विशोधनम् ॥


  1. धनुश्चिह्नान्तर्गतं सर्वपुस्तकेषु वर्तते । परं त्वधिकं लेखकप्रमादात्पतितं प्रतिभाति ।