सूत्रोक्तस्य समिद्विषये प्रादेशमात्रत्वस्य वैयर्थ्यापत्तेः । शास्त्रान्तरोक्तसमिद्विषये तु विकल्पो वेति द्रष्टव्यम् ।
अथ प्रयोगः ।
उक्तरीत्या सायंसंध्यां विधायाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सायमग्निकार्यं करिष्य इति संकल्प्याग्निं समिध्य प्रज्वाल्य ध्यायेत् ।
उपनयनसमष्ट्युत्तरभावीन्यग्निकार्याणि तु श्रोत्रियागारादाहृते लौकिकेऽग्नावेव कार्याणि ।
उपनयनाग्निरेव विवाहाग्निरिति पक्षे तु तत्रैवाग्निकार्यम् । विवाहहोमोऽपि तत्रैव । अग्नावौपासनत्वसिद्धिद्वारेत्यस्य लोप इति विशेषः[१] । तत्राग्निकार्येऽग्न्यायतनसंस्कारपरिस्तरणयोर्विकल्पः ।
उल्लेखनावोक्षणोत्सेचनकरणपक्ष आयतनं प्रकल्प्य तत्र लौकिकाग्नेः स्थापनं कृत्वा तत्र समिदाधानं कार्यम् ।
ततो यथा ह तद्वसव इत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । परिसमूहने विनियोगः-- "ॐ यथा ह तद्व० आयुः" इति सोदकेन पाणिनाऽग्निं प्रदक्षिणं परिसमूहेत् ।
ततोऽदित इत्यादिभिः परिषेकं कृत्वा स्वयमेव पुराऽस्तमयात्प्रागुदीचीमसंभवे यां कांचन दिशं गत्वा स्वयमेव च्छित्त्वा, अशक्तावन्येन च्छेदयित्वा वाऽऽहृता अध एव स्थापिता अष्टौ पलाशसमिधो गृहीत्वा शुद्धोदकेन प्रोक्ष्य व्य[२]स्तव्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापत[३]यः क्रमेण चतसृणां देवताः । गायत्र्युष्णिगनुष्टुब्बृह[४]त्यः क्रमेण चतसृणां छन्दांसि । समिदभ्याधाने विनियोगः-- "ॐ भूः, ॐ भुवः, ॐ सुवः," "ॐ भूर्भुवः सुवः" इति चतसृभिश्चतस्रः समिधोऽभ्यादधाति । जुहोतिचोदनाभावान्न स्वाहाकारः ।
केचित्तु स्वाहाकारमपीच्छन्ति । अस्मिन्पक्षे--अग्नय इदं० वायव इदं० सूर्यायेदं० प्रजापतय इदं० इति त्यागाः ।
'ॐ एषा ते अग्ने० महि स्वाहा' अग्नय इदं० । "ॐ मेधां म इन्द्रो० स्रजौ