आचमने मन्त्रविशेषमिन्द्रियोपस्पर्शनं चाऽऽह भारद्वाजः--
|
"देव्याः पादैस्त्रिभिः पीत्वा खानि पश्चादुपस्पृशेत्" इति । |
देव्या गायत्र्याः ।
अत्रिणा तु--
|
"आपो हि ष्ठादिभिर्मन्त्रैस्त्रिभिस्त्रिः प्राशनं चरेत्" इत्युक्तम् । |
एतच्चाऽऽचमनं द्विवारं कर्तव्यम् ।
तदुक्तं षट्त्रिंशन्मते--
|
"होमे भोजनकाले च संध्ययोरुभयोरपि । |
पृथ्वीचन्द्रोदये देवीनन्दिपुराणयोः--
|
"दाने प्रतिग्रहे होमे संध्यात्रितयवन्दने । |
प्राणायामलक्षणं मनुराह--
|
"प्रणवं व्याहृतीः सप्त गायत्रीं शिरसा सह । |
याज्ञवल्क्योऽपि--
|
"गायत्रीं शिरसा सार्धं जपेद्व्यात्दृतिपूर्विकाम् । |
अत्र पाठजपशब्दाभ्यां वर्णाभिध्यानमात्रं नोच्चारणं तस्यासंभवात् ।
स्मृत्यन्तरे--
|
"शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः । |
व्यासः--
|
"आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् । |
योगयाज्ञवल्क्यः--
|
"पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः । |