राजमार्तण्डः--
"व्रते जन्मत्रिकारिस्थो जीवोऽपीष्टोऽर्चनात्सकृत् । |
नक्षत्राण्याह नारदः--
"श्रेष्ठान्यर्कत्रयान्त्येज्यचद्रादित्युत्तराणि च । |
अर्कत्रयं हस्तचित्रास्वातयः । अन्त्यं रेवती । इज्यस्तिष्यः । चन्द्रो मृगशिरः । अदितिः पुनर्वसू । उत्तराशब्देनोत्तरात्रयम् । विष्णुत्रयं श्रवणधनिष्ठाशतभिषजः । अश्विनावश्विनी । मित्रोऽनूराधाः । अब्जयोनिभं रोहिणीनक्षत्रम् ।
बृहस्पतिः--
"त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे । |
मैत्रमनूराधाः । वासवं धनिष्ठाः । त्वाष्ट्रं चित्रा । सौम्यं मृगशिरः ।
शार्ङ्गधरीये--
"श्रवणादित्यपौष्णादिद्वये हस्तत्रये मृगे । |
वेदविशेषेण नक्षत्रविशेषविधिज्योतिर्निबन्धे--
"मूले हस्तत्रये सार्पे शैवे पूर्वात्रये तथा । |
सार्पमा[१]श्रेषाः । शैवमार्द्राः । पौष्णं रेवती । मैत्रमनूराधाः । शशाङ्कभं मृगशिरः । ध्रुवाण्युत्तरात्रयं रोहिणी च । वासवं [२]ज्येष्ठा । अश्विनावश्विनी । शिव आर्द्रा । विष्णुः श्रवणम् । अदितिः पुनर्वसू ।