सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( उदकोपस्पर्शनावश्यकता )
 

'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । ऋतुमितिवचनादृत्वारम्भे प्रायश्चित्तारम्भः । तत उपनयनम् । एवंचरितव्रत उपनेतव्यः ।

अथोदकोपस्पर्शनम् ।

 तत उपनयनमारभ्य संवत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य त्रिषवणमशक्तस्य यथाशक्ति । संवत्सरमित्यापस्तम्बः ।
अथाध्याप्यः । एवंचरितव्रतः पश्चादध्याप्य इति व्याख्यातमुज्ज्वलाकृता ।

 स्वस्य पितृपितामहयोश्चानुपनीतत्वे तेषां ब्रह्महतुल्यत्वमभ्यागमनादीनां वर्जनं चोक्तं धर्मसूत्रे--

 "अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुतास्तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत्" इति ।

 यस्य माणवकस्य पिता पितामह इत्यनुपेतावनुपनीतौ स्यातां स्वयं च ते तथाविधा माणवका ब्रह्महसंस्तुता ब्रह्महण इत्येवं कीर्तिताः । ब्रह्मवादिभिरिति शेषः । अतस्तस्मिंस्तच्छब्दप्रयोगस्तद्धर्मप्राप्त्यर्थः । श्मशानवच्छूद्रपतितावित्यध्ययनप्रतिषेधो वक्ष्यते । ततश्च यथा ब्रह्महसमीपे नाध्येयमेवमेषामपीति । तेषामेषामभ्यागमनमाभिमुख्येन गमनं मातृपितृपुत्रदारशरीररक्षणार्थमपि वर्जयेत् । यद्यपि रक्षा सर्वतो ग्राह्येति वक्ष्यते । भोजनमुद्यतमपि वर्जयेत्, अपि दुष्कृतकारिण इति सत्यपि वचने । विवाहं वर्जयेत्, यद्यपि "स्त्रीरत्नं दुष्कुलादपि" इति मानववचनं तथाऽपीति व्याख्यातमुज्ज्वलाकृता ।

 एतेषामिच्छतां प्रायश्चित्तमुक्तं धर्मसूत्रे--

 "तेषामिच्छतां प्रायश्चित्तं यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरं प्रतिपुरुषं संख्याय संवत्सरान्यावन्तोऽनुपेताः स्युः" इति ।

 इच्छतामितिवचनान्न बलात्कारेण प्रायश्चित्तम् । यथा प्रथमे ब्रह्मचर्यस्यर्तुः काल एवमस्मिन्नतिक्रमे संवत्सरः कालः । अथोपनयनं तत उदकोपस्पर्शनमिति पूर्ववच्छेषम् । आपस्तम्बे दर्शनात् । यदि पितैवानुपेतः स्यात्संवत्सरमेकम् । अथ पितामहोऽपि ततो द्वौ । अथ स्वयमपि यथाकालमनुपनीतस्ततस्त्रीन्संवत्सरानिति व्याख्यातमुज्ज्वलाकृता । एतदनन्तरमध्यापयेदित्युक्तं धर्मसूत्रे-- "अथाध्याप्यः" इति ।

 उदकोपस्पर्शनमन्त्रा धर्मसूत्रे--

 "सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनापि व्याहृतीभिरेव" इति ।