नस्य गायत्र्युपदेशाङ्गत्वदर्शनात् । एवं चोपनयनपदं योगरूढम् । समिद्दर्शादिपदस्येवाङ्गवाचिनोऽप्युपनयनपदस्य तत्संबन्धेन प्रधानसंज्ञात्वोपपत्तेरित्याहुः ।
परे तु पङ्कजपदस्येवैकत्र यौगिकस्य रूढस्य च योगरूढपदवाच्यत्वादत्र तु नयने योगस्य गायत्र्युपदेशे च रूढेश्च सद्भावेनैकत्र विद्यमानत्वाभावान्न योगरूढत्वमुपनयनपदस्य । तेन समीपनयनस्यैव प्रधानत्वमित्याहुः ।
गृह्यम्--"उपनयनं व्याख्यास्यामः सप्तवर्षं ब्राह्मणमुपनयीतैकादशवर्ष राजन्यं द्वादशवर्षं वैश्यं वसन्ते ब्राह्मणं ग्रीष्मे राजन्य शरदि वैश्यमापूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये" इति ।
सप्त वर्षाणि जन्मतः परिमाणं यस्य स सप्तवर्षः । एतादृशं ब्राह्मणमुपनयेत् । एकादशद्वादशवर्षशब्दयोरप्येवं व्युत्पत्तिर्ज्ञेया । यस्मिन्पक्षे कलाभिश्चन्द्रमाः पूर्यते स आपूर्यमाणपक्षः पूर्वपक्षः शुक्लपक्ष इति यावत् । पुण्ये नक्षत्रे शुभे नक्षत्रे ज्योतिःशास्त्रविहिते । पुंनामधेये पुंशब्दाभिधेये । विशेषेणेतिवचनात्पुंशब्दाभिधेये विशिष्टमुपनयनम् । अन्यस्मिन्नपि पुण्य एव न गर्हिते ।
पुंशब्दाभिधेयानि नक्षत्राणि तु मातृदत्तेनोक्तानि--
"अश्वयुक्पुनर्वसू तिष्यो हस्तः शतभिषक्प्रोष्ठपदाः" इति । |
गर्गस्मृतौ तु श्रवणाभिजिदनूराधा अप्युक्ताः--
"पुंनाम श्रवणस्तिष्यो हस्तश्चैव पुनर्वसू । अभिजित्प्रोष्ठपाच्चैव अनूराधा तथाऽश्वयुक्" इति ॥
धर्मसूत्रेऽप्युपनयनकाल उक्तः--
"वसन्ते ब्राह्मणं ग्रीष्मे राजन्य शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं |
गर्भसहचरितं वर्षमपि लक्षणया गर्भशब्देनोच्यते । तदष्टमं येषां षष्ठादीनां वर्षाणां तानि गर्भाष्टमानि तेषूपनयनमित्यर्थः । गर्भादिः संख्या वर्षाणां तदष्टमेषु ब्राह्मणमुपनयेदितिवचनात् । वर्षं चात्र चान्द्रमानेन चैत्रशुक्लप्रतिपदादीति केचित् । अन्ये त्वष्टममासारम्भं गर्भाधानं वाऽऽरभ्य वर्षप्रवृत्तिमाहुः । गर्भाष्टमेष्वित्यत्र बहुवचनं षष्ठसप्तमयोः संग्रहार्थमिति सुदर्शनः । काम्यानामपि तेष्वन्तर्भावार्थमित्युज्ज्वलाकृतो महादेवदीक्षिताः । वसन्तादीनां पुनर्विधानमुदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहा इत्याश्वलायनोक्तस्य वसन्तातिरिक्तस्योदगयनस्य बाधनार्थम् । 'सप्तवर्षं