पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१५९
संस्काररत्नमाला ।
( क्षेत्रपालबलिदानम् , पूर्णाहुतिहोमः )
 

रिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो वास्तोष्पत इमं बलिं० वास्तोष्पतिः प्रीयताम् । बलेर्विप्रकृष्टत्वे त्विममित्यत्रामुमिति सर्वत्र । तत्तत्प्रदेशोपविष्टो बलिसमर्पणं कुर्यादित्यस्मिन्कल्पे तु सर्वत्रेममित्येव न त्वमुमिति ।

 ततः क्षेत्रपालाय कुङ्कुमरक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्तबलिं दद्यात्[१] । अत्राऽऽवाहनादिपूजनमपि केचित्कुर्वन्ति ।

 क्षेत्रस्य पतिनेत्यस्य विश्वे देवाः क्षेत्रपालोऽनुष्टुप् । क्षेत्रपालप्रीत्यर्थं बलिदाने विनियोगः । "ॐ क्षेत्रस्य पतिना० तीदृशे" क्षेत्रपालाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय भूतप्रेतडाकिनीशाकिनीब्रह्मराक्षसवेतालादिपरिवारयुतायेमं कुङ्कुमारक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्तबलिं समर्पयामि । भो भोः क्षेत्रपाल सपरिवारेमं बलिं० क्षेत्रपालः प्रीयताम् ।

 ततः शुद्रेण दुर्ब्राह्मणेन वा समर्पितं बलिं बहिर्देशं प्रापयेत् । तस्य पृष्ठतः शान्तिपाठपूर्वकं स्वयं जलं सिञ्चन्साचार्यः सपत्नीको गृहाद्बहिर्गत्वा ([२]प्रत्येत्य हस्ती पादौ च प्रक्षाल्याऽऽचम्याग्निसमीपमागत्य पुनराचम्य स्वायतन उपविशेत् । एवं पत्नी । तत आचार्यस्तथैव प्रक्षालितपाणिपाद आचान्तो) दर्व्यां स्रुवेण द्वादशगृहीतमष्टगृहीतं चतुर्गृहीतं वाऽऽज्यं गृहीत्वा[३] तदुपरि वस्त्रयुतं चन्दनादिभूषितं फलं निधायेडनामाऽयमग्निरित्यनुसंधाय यजमानतत्पत्न्यमात्यान्वारब्धस्तिष्ठन्पूर्णाहुतिं जुहुयात् ।

 समुद्रादूर्मिरिति मन्त्रत्रयस्य याज्ञिक्यो देवता उपनिषदोऽग्निस्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । "ॐ समुद्रादूर्मि० नाभिः" " वयं नाम० एतत्" "चत्वारि शृङ्गा० आविवेश" । मूर्धानं दिव इत्यस्य सोमोऽग्निर्वैश्वानरस्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । "ॐ मूर्धानं० देवाः" । पुनस्त्वेत्यस्याग्निर्वसुरुद्रादित्यास्त्रिष्टुप् । पूर्णाहुतिहोमे विनियोगः । "ॐ पुनस्वाऽऽदित्या० कामाः" । पूर्णा दर्वीत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप् । पूर्णाहुतिहोमे


  1. क. ख. त् । क्षे ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने घ ङ. पुस्तकयोः--"क्षेत्रपालाय नम इति क्षेत्रपाल नमस्कृत्य हस्तौ पादौ च प्रक्षाल्य प्रत्येत्याऽऽचामेत् । आचार्यपत्न्योरपि हस्तपादप्रक्षालनमाचमन च । तत्र पन्त्याः सकृदमन्त्रकम् । ततो यजमानपत्न्याचार्या अग्निसमीपमागत्याऽऽचम्य स्वायतनेषूपविशेयुः । तत आचार्यो" इति ग्रन्थो वर्तते ।
  3. घ. ङ, त्वा दर्व्या अपूर्णतायामाज्येनाभिपूर्य त ।