पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहयज्ञप्रयोगः]
१५१
संस्काररत्नमाला ।
( अन्वाधानम् )
 

ततः--

  "देवदानवसंवादे मथ्यमाने महोदधौ ।
  उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥
  त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।
  त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
  शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
  आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः ।।
  त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
  त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥
  सांनिध्यं कुरु देवेश प्रसन्नो भव सर्वदा" इति संप्रार्थयेत् ।

 ततः--आपो हि ष्ठेतिमन्त्रत्रयस्याग्नि[१]र्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इतिमन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां सोम ऋषिः । पवमानसुवर्जनादयो देवताः । अनुष्टुबादीनि च्छन्दांसि । जपे विनियोगः-- "ॐ आपो हि ष्ठा०३" "हिरण्यवर्णाः० ४" "पवमानः सुवर्जनः० १७" इति[२] स्थापितं कलशमभिमृश्य जपेत् । काम्ये स्वयमेवायं जप आचार्येण कार्यः । नित्ये नैमित्तिके च स्वाशक्तावन्यं[३] मन्त्रविदं ब्राह्मणं[४] जपार्थं वृत्वा संपूज्य तेन जपः कारणीयः । ग्रहपीठे नवग्रहमन्त्रजपार्थं त्रीन्ब्राह्मणानेकं वा ब्राह्मणं वृत्वा संपूज्य जपं कारयेत् । कलशसंबन्धिजपसंख्या त्वष्टोत्तरशतमष्टाविंशतिर्वा । ग्रहमन्त्रजपोऽप्येवमेव प्रतिमन्त्रम् ।

अथान्वाधानम् ।

 आचार्यः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा ग्रहयज्ञहोमकर्मणि या यक्ष्यमाणा देवतास्ता इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा गणपतिमेकया पलाशसमिदाहुत्या चर्वाहुत्याऽऽज्याहुत्या च यक्ष्य इति वदेत्[५] । केवलौदनाहुत्या केवलाज्याहुत्या वा यक्ष्य इति[६] वा वदेत्[७] । एतच्च प्रथमं तु[८] वराहुतिरितिपाठे । प्रथमा तु वराहुतिरिति पाठे तु केतुप्रत्यधिदेवतान्वाधानोत्कीर्तनान्ते गणपतिं प्रथमया समिच्चर्वाज्यवराहुत्या यक्ष्य इति, केव[९] ।लौदनेन केवलाज्येन वा भूयस्यैकाहुत्या यक्ष्य इति वा । वरत्वमुक्त


  1. ग. घ. ङ. ग्निरापो ।
  2. क. ख. ति कुम्भम ।
  3. घ. ङ. शक्तौ मन्त्रविदमन्यं ब्रा ।
  4. क. ख णं नियुञ्जीत । अ ।
  5. घ. ङ. त् । अथवा केवलचर्वाहु ।
  6. घ. ङ. इत्येवं व ।
  7. घ. ङ. त् । इदं च प्र ।
  8. ङ. तु प्र ।
  9. घ. ङ. बलचरुवराहुत्या यक्ष्ये केवलाज्यवराहुत्या ।