पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१४१
संस्काररत्नमाला ।
( अधिदेवतावाहनस्थापने)
 

इति सोमदक्षिणपार्श्वे त्रिदशपूजितां श्वेतासनां पुरोगतसिंहामक्षसूत्रकमलदर्पणकमण्डलुधारिणीमुमाम् ।

 यदक्रन्द इत्यस्याग्निः स्कन्दस्त्रिष्टुप् । समस्तव्या० स्कन्दावाहने विनियोगः । 'ॐ यदक्रन्दः० जातं ते अर्वन्' भूर्भुवः सुवः, स्कन्दाय नमः स्कन्दमावाहयामि । इत्यङ्गारकदक्षिणपार्श्वे षण्मुखं रक्ताम्बरधरं शिखण्डकविभूषणं मयूरवाहनं चतुर्भुजं दक्षिणहस्ताभ्यां कुक्कुटघण्टाधारिणं वामहस्ताभ्यां वैजयन्तीपताकाशक्तिधारिणं स्कन्दम् ।

 विष्णोरराटमित्यस्य सोमो विष्णुर्यजुः । समस्तव्या० एकपदा निचृद्गायत्री वा । विष्ण्वावाहने विनियोगः । "ॐ विष्णोररा० त्वा" विष्णवे नमो विष्णुमावाहयामीति बुधदक्षिणपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं विष्णुम् । नारायणो वाऽधिदेवता । अस्मिन्पक्षे सहस्रशीर्षेत्यस्य प्रजापतिर्नारायणोऽनुष्टुप् । समस्त० नारायणावाहने विनियोगः । "ॐ सहस्रशीर्षा० दशाङ्गुलम्" भूर्भुवः सुवः, नारायणाय नमो नारायणमावाहयामि । इति बुधदक्षिणपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं नारायणम् ।

 ब्रह्मा देवानामित्यस्य विश्वे देवा ब्रह्मा त्रिष्टुप् । समस्त० ब्रह्मावाहने विनियोगः । "ॐ ब्रह्मा देवानां ० रेभन्" भूर्भुवः सुवः, ब्रह्मणे नमो ब्रह्माणमावाहयामीति बृहस्पतिदक्षिणपार्श्वे यज्ञोपवीतिनं पद्मासनस्थं जटिलं चतुर्मुखमक्षमालापुस्तककमण्डलुधारिणं पार्श्वभागस्थापितपीतवासःकृष्णाजिनं पार्श्वस्थितहंसं ब्रह्माणम् ।

 सजोषा इन्द्रेत्यस्य सोम इन्द्रस्त्रिष्टुप् । समस्तव्या० इन्द्रावाहने विनियोगः । "ॐ सजोषा इन्द्र० तो नः" भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति शुक्रदक्षिणपार्श्वे चतुर्दन्तगजारूढं वज्राङ्कुशपाणिं शचीपतिं नानाभरणभूषितमिन्द्रम् ।

 इमं यमेत्यस्य विश्वे देवा यमस्त्रिष्टुप् । समस्त० यमावाहने विनियोगः । "ॐ इमं यम प्रस्तर० यस्व" भूर्भुवः सुवः, यमाय नमो यममावाहयामीति शनिपार्श्व ईषत्पीतं द्विभुजं दण्डपाशपाणिं कृष्णवर्णं रक्तनेत्रं नानाभूषणभूषितं महिषारूढं यमम् ।