पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१३९
संस्काररत्नमाला ।
( ग्रहावाहनस्थापने )
 

 उद्बुध्यस्वेत्यस्याग्निर्बुधस्त्रिष्टुप् । समस्तव्या० बुधावाहने विनियोगः ।"ॐ उद्बुध्यस्वा० मेतम्" भूर्भुवः सुवः, भगवन्सौम्याकृते किरीटिन्सर्वज्ञानमय खड्गचर्मगदावरकर चतुर्भुज पीतमाल्याम्बरधर पीतगन्धानुलेपन मरकताभरणभूषित कुङ्कुमोपमद्युते पीतसिंहरथारूढ मगधदेशोद्भवाऽऽत्रेयसगोत्र बुधेहाऽऽगच्छेत्यैशान्यां चतुरङ्गुले बाणाकारे पीताक्षतपूरिते पीठ उदङ्मुख्यां सुवर्णप्रतिमायां पीताक्षतैर्बुधमावाह्येहाधितिष्ठेति स्थापयेत् ।

 बृहस्पत इत्यस्य विश्वे देवा बृहस्पतिस्त्रिष्टुप् । समस्त० वृहस्पत्यावाहने विनियोगः । "ॐ बृहस्पते अति यद० चित्रम्" भूर्भुवः सुवः, भगवन्सर्वदेवताचार्य किरीटिन्सर्वविद्यामय दण्डाक्षसूत्रकमण्डलुवरकर चतुर्भुज पीतमाल्याम्बरधर पीतगन्धानुलेपन पुष्परागाभरणभूषित सुवर्णोपमद्युते पीताश्वरथारूढ सिन्धुदेशोद्भवाऽऽङ्गिरससगोत्र बृहस्पत इहाऽऽगच्छेत्युत्तरे षडङ्गुले दीर्घचतुरश्रे पीताक्षतपूरिते पीठ उदङ्मुख्यां सुवर्णप्रतिमायां पीताक्षतैर्बृहस्पतिमावाह्येहाधितिष्ठेति स्थापयेत् ।

 शुक्रं त इत्यस्य विश्वे देवाः शुक्रस्त्रिष्टुप् । समस्त० शुक्रावाहने विनियोगः । "ॐ शुक्रं ते अन्य० रातिरस्तु" भूर्भुवः सुवः, भगवन्सर्वदैत्याचार्य किरीटिन्सर्वविद्यामय दण्डाक्षसूत्रकमण्डलुवरकर चतुर्भुज श्वेतमाल्याम्बरधर श्वेतगन्धानुलेपन वज्राभरणभूषित रजतोपमद्युते शुक्लाश्वरथारूढ भोजकटदेशोद्भव भार्गवसगोत्र शुक्रेहाऽऽगच्छेति पूर्वे नवाङ्गुले पञ्चकोणे श्वेताक्षतपूरिते पीठे प्राङ्मुख्यां रजतप्रतिमायां शुक्लाक्षतैः शुक्रमावाह्येहाधितिष्ठेति स्थापयेत् ।

 शं नो देवीरित्यस्याग्निः प्रजापतिर्वा शनैश्चरो गायत्री । समस्त० शनैश्चरावाहने विनियोगः । "ॐ शं नो देवी० तु नः" भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिञ्शूलबाणधनुर्वरकर चतुर्भुज नीलमाल्याम्बरधर नीलगन्धानुलेपन नीलाभरणभूषित कज्जलमीनोपमद्युते नीलगृध्ररथारूढ सौराष्ट्रदेशोद्भव काश्यपसगोत्र शनैश्चरेहाऽऽगच्छेति पश्चिमे द्व्यङ्गुले धनुराकारे नीलाक्षतपूरिते पीठे प्रत्यङ्मुख्यां लोहप्रतिमायां नीलाक्षतैः शनैश्चरमावाह्येहाधितिष्ठेति स्थापयेत् ।

 कया न इत्यस्य विश्वे देवा राहुर्गायत्री । समस्त० राह्वावाहने विनियोगः। "ॐ कया नश्चि० वृता" भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिन्करालवदन सिंहिकानन्दन खड्गचर्मशूलवरकर चतुर्भुज कृष्णमाल्याम्बरधर कृष्णगन्धानुलेपन गोमेदाभरणभूषित कालमेघोपमद्युते कृष्णसिंहरथारूढ राठिनापुरोद्भव