श्रौते श्राद्धे च मन्त्रादौ प्रणवोऽपि न हीष्यते ।
अन्ये त्वेतस्य वचसो निर्मूलत्वादिहापि च ॥ ४७ ॥
स्यादृष्यादिस्मृतिस्तारोच्चारणं चेति वै जगुः ।
मन्त्रान्त्यस्य त्वक्षरस्य पाठकाले हि कर्मणः ॥ ४८ ॥
सर्वत्रोपक्रमः कार्यः सूत्रकारस्य वाक्यतः ।
स्वाहाकारो हि मन्त्रान्ते नि[१]त्यो गार्ह्ये प्रकीर्तितः ॥ ४९ ॥
पित्र्यमन्त्रेऽपि नो यत्र स्वधाकारनिदर्शनम् ।
स्वाहान्त एव तत्र स्यादिति भाष्यकृतेरितम् ॥ ५० ॥
मन्त्रादौ मन्त्रमध्ये वा स्वाहाशब्दोऽस्ति चेत्तदा ।
नान्ते प्रयोक्तव्य इति प्रोक्तवानाश्वलायनः ॥ ५१ ॥
भवेदव्यवधानेन देवतापदतः पुरा ।
स्वाहाकारस्य पाठश्चेत्तदा नान्ते भवेदयम् ॥ ५२ ॥
न चेद्भवेत्पाठ इत्थं तदाऽन्तेऽपि भवेत्स तु ।
स्वाहाधिमिति मन्त्रेऽस्मिन्नर्थे ह्यस्ति निदर्शनम् ॥ ५३ ॥
इदमेवानुसर्तव्यमत एव मनीषिभिः ।
मन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी ॥ ५४ ॥
तदन्तेऽन्यां प्रयुञ्जीत सा होमाङ्गतया मता ।
शक्तिसंगमतन्त्रोक्तादेतस्माद्वाक्यतः पुनः ॥ ५५ ॥
स्वाहाशब्दं प्रयुञ्जीत तन्त्रस्य प्रबलत्वतः ।
विशेषोऽयं तन्त्रयुक्ते वैदिके होमकर्मणि ॥ ५६ ॥
जुहोतिविधिसंबद्धमन्त्रेष्वेष विधिः स्मृतः ।
स्वाहान्तो नाममन्त्रः स्यादमन्त्रास्वाहुतिष्वथो ॥ ५७ ॥
कर्मशिष्टोदकं कर्मसमाप्तौ तु परित्यजेत् ॥
न त्वन्यत्रोपयुञ्जीताऽऽचमनक्षालनादिषु ॥ ५८ ॥
मन्त्रमुच्चारयेन्मन्त्रप्रतिपाद्यं तु शेषिणम् ।
संस्तुवंस्तन्मना भूत्वा स्यादेतदनुमन्त्रणम् ॥ ५९ ॥
आभिमुख्येक्षणाधिक्यादेतदेवाभिमन्त्रणम् ।
[२]शेषिणश्चिन्तनं कुर्वन्सम्यक्स्थित्वा समीपतः ॥ ६० ॥