पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
[प्रायश्चित्तमन्त्राणामृष्यादि]
भट्टगोपीनाथदीक्षितविरचिता--
(मिन्दादिगणः)
 

 इमं मे तत्त्वा यामीत्यनयोर्विश्वे देवा वरुणो देवता । प्रथमस्य गायत्री छन्दो द्वितीयस्य त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । स्वप्नजातरेतोविसर्गजन्यदोषपरिहारनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--"ॐ इमं मे० के स्वाहा" वरुणायेदं० । "ॐ तत्त्वा या० षीः स्वाहा वरुणायेदं० ।" "भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 पुनर्मामित्यनुवाकमन्त्राणामरुणा ऋषयः सूर्यो देवता । प्रथमस्यानुष्टुप् द्वितीयस्य द्विपदा त्रिष्टुप्, तृतीयस्य द्विपदा गायत्री, चतुर्थस्यानुष्टुप् । स्वप्नजातरेतोविसर्गजन्यदोषपरिहारनिमित्तके जपे विनियोगः--

 "पुन र्मा० तु मा ॥ १ ॥ यन्मेऽद्य० दापः ॥ २ ॥ इदं त० र्चसे ॥ ३ ॥ यन्मे रे. कुरु ॥ ४ ॥"

अथ मिन्दादिगणः।

 यन्म आत्मन इत्यस्य विश्वे देवा अग्निर्जातवेदा गायत्री । पुनरग्निरित्यस्य विश्वे देवा अग्निरिन्द्रो बृहस्पतिरश्विनौ चानुष्टुप् । व्यस्तव्याहृतीनां याज्ञिक्यो देवता उपनिषदः । अग्निर्वायुः सूर्यो गायत्र्युष्णिगनुष्टुभः । प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता परमात्माग्न्योरभेदविवक्षयैकैव वा देवता । गायत्री छन्दः । यच्चिद्धि त इत्यस्य विश्वे देवा वरुणो गायत्री । यत्किंचेदमित्यस्य विश्वे देवा वरुणो विराड्जगती स्वराट्त्रिष्टुब्वा । कितवास इत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । तन्तुं तन्वन्नित्यस्य विश्वे देवास्तन्तुमानग्निर्जगती । निचृज्जगती वा । उद्बुध्यस्वेत्यस्य विश्वे देवास्तन्तुमानग्निस्त्रिष्टुप्, निचृत्रिष्टुब्वा । त्रयस्त्रि शदित्यस्य विश्वे देवास्तन्तुमानग्निर्जगती । त्रिष्टुब्वा । अन्वग्निरित्यस्याग्निरग्निर्जातवेदा निचृत्त्रिष्टुप् । मनो ज्योतिरित्यस्य मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रिष्टुप् । भूरग्नये च पृथिव्यै चेत्यादिमहाव्याहृतिसंज्ञकमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषद ऋषयः, अग्निरग्निः पृथिवी म[१]हत् । वायुर्वायुरन्तरिक्षं महत् । सूर्य आदित्यो द्यौर्म[२]हत् । प्रजापतिश्चन्द्रमा नक्षत्राणि दिशो म[३]हत् । महानिति वा सर्वत्र । इति क्रमेण देवताः । यजूंषि । सप्त त इत्यस्याग्निः सप्तवानग्निर्जगती । प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । सर्वेषामन्तरागमनप्रायश्चित्ताज्यहोमे विनियोगः--


  1. क. ख. ड. महान् ।
  2. क. ख. ङ. र्महान् । प्र ।
  3. क. ख. महानिति क ।