[प्रायश्चित्तसंग्रहकारिकाः]
१०५
संस्काररत्नमाला ।
( हविरुत्सेकप्रायश्चित्तम् )
समापयेद्धृतेनान्यन्न पुनर्याग इष्यते ।
अधुना हविरुत्सेकप्रायश्चित्तं प्रवक्ष्यते ॥ १९ ॥
प्राच्यां दिशि समुत्सेकेऽग्नये स्वाहाहुतिर्भवेत् ।
दक्षिणस्यां यमायेति वरुणायेति पश्चिमे ॥ १२० ॥
सोमायेत्युत्तरस्यां स्यात्सर्वाभ्यः सर्वदिक्षु चेत् ।
यद्यवान्तरदिक्षु स्या[१]द्धोमो व्याहृतिभिस्तदा ॥ २१ ॥
सर्वेष्वेतेषु होमत्वात्स्वाहाकारान्तता भवेत् ।
आप्यायस्वेति समिति चाऽऽज्येनाऽऽप्याययेद्धविः ॥ २२ ॥
द्वे मिन्दे जुहुयात्सर्वप्रायश्चित्तादिकं तथा ।
यागान्वाधानयोर्मध्ये यदि सूर्यग्रहो भवेत् ॥ २३ ॥
उद्वयं तमसस्पर्युदु त्यं चित्रमिति त्रिभिः ।
जुहुयादाहुतीस्तिस्रः प्रधानात्पूर्वमेव तु ॥ २४ ॥
कैश्चिन्मन्त्रत्रयेणात्रोपस्थानमपि कीर्तितम् ।
मध्ये चन्द्रग्रहश्चेत्प्राक्प्रधानादाहुतिद्वयम् ॥ १२५ ॥
नवो नवो यमादित्या इत्याभ्यां जुहुयात्तदा ।
कैश्चिन्मन्त्रद्वयेनात्रोपस्थानमपि कीर्तितम् ॥ २६ ॥
अन्वाधानाक्रियायां तु न प्रायश्चित्तमिष्यते ।
वानस्पत्यस्य पात्रस्य भेदनेऽन्यत्समाहरेत् ॥ २७ ॥
गृह्याग्नौ ज्वलितं भिन्नं प्राग्दण्डं प्रहरेत्ततः ।
लौकिकानलसाध्यायां क्रियायां लौकिकेऽनले ॥ २८ ॥
वानस्पत्यस्य भिन्नस्य प्रक्षेपः पूर्ववद्भवेत् ।
मृन्मयं चे[२]द्विभिद्येत भूमिर्भूमिमगादिति ॥ २९ ॥
ब्रह्माभिमन्त्रितं भिन्नमभावे स्वाभिमन्त्रितम् ।
क्षिपेत्पात्रं जले शुद्धे तत्कार्येऽन्यन्नियोजयेत् ॥ १३० ॥
क्रियाकाले विधिमिमं प्राहुरन्ये तु सर्वदा ।
यत्किंचित्पात्रभेदे तु प्रणवेन घृताहुतिः ॥ ३१ ॥
समस्तव्याहृतीभिर्वा होतव्या यज्ञपार्श्वतः ।
आज्याधिश्रयणात्पूर्वं निरूढाग्नेर्विनाशनम् ॥ ३२ ॥
भवेद्यदि तदा स्थानात्पुनः कुर्यान्निरूहणम् ।
ततश्चतुर्गृहीतेन मनस्वत्याहुतिर्भवेत् ॥ ३३ ॥
|
- ↑ क. ख. स्याज्जुहुयाद्व्याहृतीस्तदा । आ ।
- ↑ ग. चेद्धि भि ।