पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2


निरवर्तीति सत्यमहं नित्यमेषु नितरां कृतज्ञोऽस्मि । एवमेतान् सर्वान् द्वारीकृत्य अल्पशक्तिमतिमेव मां निमित्तमात्रं परिकल्प्य सर्वमिदं सञ्जनश्लाघनीयं निर्वर्तितवतः सर्वदैवतस्य, सर्वथैव नः कुलदैवतस्य श्रीमतो वेंकटेशस्य वैभवमीषदप्यनुपवर्ण्य अवस्थानमसाम्प्रतं पश्यता सर्वमहाजनमाननीयया सरण्या तत्र कृतज्ञतामाविश्चिकीर्षता सम्प्रति इदमेव मया प्राप्तरूपं परिशील्यते, यत् अस्यैव श्रीनिवासस्य औपनिषदपुरुषस्य अशेषप्रकृतोपनिषदुपदिष्टभक्तिमार्गप्रदर्शित-गुणमहिमप्रकारसंग्रहणेन वेदान्तपुष्पाञ्जलिसमर्पणेन समर्चनं नाम । तदिदं युक्तरूपमनुमत्यानुवाचयन्तः स्वयमपि पुष्पाञ्जलिप्रदानेन पूजितवन्तो भविष्यन्तीति मे विस्रम्भः । इदमेव ह्यस्माभिरनवरतमाशास्यते, यदस्य भगवतो वेंकटेशस्य श्रीनिवासस्य सार्वभौमं गुणगणोपश्लोकनं नाम । तदेवं सर्ववेदान्तसारसंग्रहसरणिः संप्रति भूमिकायां दर्शयितव्या धारणार्हया रीत्या दर्शिता भवतीति स्थाने विज्ञापनम्, यदयं वेदान्तपुष्पाञ्जलिराविर्भाव्यते स्रग्धराश्लोकमय एवम्................

नत्वा श्रीरङ्गरामानुजनिगमशिरोलक्ष्मणाख्यौ मुनीन्द्रौ
श्रीमन्तौ रङ्गरामानुजमुनितिलकौ श्रीमदाचार्यरत्नम् ।
त्रय्यन्ताचार्यसंज्ञं यतिपतिभगवल्लक्ष्मणार्यं श्रियञ्च
श्रीशैलोत्तुङ्गशृङ्गस्थिरशुभविभवं श्रीनिवासं प्रपद्ये ॥ १

श्रीभाष्ये भक्तिमादावभिलषति गुरुर्ब्रह्मणि श्रीनिवासे
श्रुत्यन्ताचार्यघुष्टः श्रुतिनिकरशिरश्शेखरः श्रीनिवासः।
स्वामी श्रीरङ्गरामानुजमुनिरतसीगुच्छसच्छायमेनं
शृङ्गारञ्चाञ्जनाद्रेरनमदुपनिषद्भाष्यमारिप्समानः ।। २

भक्तिन्यासप्रभिन्नाः भगवति कमलावल्लभे काङ्क्षितार्थे
विद्याः श्रुत्यादिसिद्धाः विविधतनुगुणस्थानक्लृप्तव्यवस्थाः ।
तत्र श्रुत्यन्तदृष्टाः परमिह गुरुभि: प्रेक्षितोऽहं यतिष्ये
सारोद्धारेण गृह्णन् रचयितुमुचितं श्रीनिधेः स्तोत्रमस्य । ३

भक्तिर्भुक्त्यर्थविद्या स्तृतिविदिदृशिनिध्यानमुख्याभिधाना
लक्ष्मीकान्तैकताना बहुविधचिदचिद्गोचरत्वेऽपि सर्वा ।