पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचायविरचितभाष्ययुक्ता सुबालोप. ४. प्राणः शरीरं परिरक्षति । हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाडयो रुधिरस्य पूर्णाः । अथात्रैतद् दहरं पौण्डरीकं कुमुदमिवानेकधा विकसितम् । अथ सुषुप्तिं वक्तुमारभते प्राणः शरीरमित्यादिना । सुषुप्तिकाले जीवेच्छाप्रयत्नौ विनाऽपि परमात्मसंकल्पप्रेरितो मुख्यः प्राणः शरीरं परिरक्षति धत्त इत्यर्थः । प्राणसंचारस्थानभूता नाडीर्विशिनष्टि हरितस्येति । हरितादिपदानि रुधिरविशेषणानि । ईषत्पीतं हरितम् । लोहितं शोणवर्णम् । रुधिरस्य रुधिरेण नाड्यः पूर्णा भवन्ति । आयासाभावात् नाडीषु रक्तं न्यूनाधिकभावविरहेण व्याप्तमित्यर्थः । पूर्वं नाडीविशेषाः स्वप्नस्थानत्वेनोक्ताः ।। अथ नाडीविशेषाणामेवान्येषां सुषुप्तिस्थानत्वं वक्तुं तेषामपि हृदयकमलसंबन्धकथनार्थ हृदयं पुनः प्रस्तौति अथात्वेति । पूर्ववदर्थः । तत्संबन्ध (द्ध ?) पृथग्वाक्यतायां प्रमाणाभावाच्च, ' स संप्रसादः सर्वान् शब्दान् विजानातीति पूर्वणैकवाक्यता ! 'सर्वेन्द्रियव्यापारसंपत्तिसमयेऽपि यः सर्व न जानाति, स कथमुपरतेन्द्रियः सुप्तः इमं लोकं सर्वान् शब्दान् परश्च सर्वं जानीयात्' इत्याशङ्कापरिहाराय संप्रसादत्वविशेषणम् । अकलुषत्वमेव ह्यस्य स्वभावः ।सर्व ह पश्यः पश्यति' इति किल पश्यत्स्वभावस्य परिस्थितिः । स जाग्रदवस्थारूपप्रतिबन्धकविरहे प्राचीनकर्मानुगुणप्रसादविशेषात् सर्वं द्रष्टुमलमिति दर्शितं भवति । तेन स्वप्निकपदार्थानां वास्तवत्वमपि ख्यापितं भवति ; प्रसन्नपुरुषग्राह्यत्वज्ञापनात् । एवमेकवाक्यतायाश्च आचक्षत इत्येतत् , एवं स्वप्नवृत्तं वदन्तीत्यर्थकं भवतीति स्वप्नवर्णनमत्र समाप्तमिव लक्ष्यते इति विमृश्य, प्राणः शरीरमित्यादिकं सुषुप्तिपरं व्याख्यातम् । अन्यथा पुन:, 'प्राणेन रक्षमवरं कुलाय बहिष्कुलायादमृतश्चरित्वा (वृ.६.१०), 'हिता नाम हृदयस्य नाडयो हृदयात् पुरिततमभिप्रतन्वन्ति । यथा सहस्त्रधा केशो विपाटितः, तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति । तासु तदा भवति ' (कौ.४) इति श्रुत्यन्तरानुसारेण स्वप्नपरत्वमपि पूर्णाःइत्यन्तस्य सुवचम् । जागरे शरीरव्यापारायासबाहुल्यात् नाडीनां रुधिरपूर्णता न भवतीति सुषुप्तौ पूर्णतावर्णनं यदत्र सरसमुपपादितम् , तत् स्वप्नेऽपि हि भवितुमर्हति; प्रत्यक्षशरीरस्य प्रयासराहित्याविशेषात् । अथात्रेत्यादिकं सुषुप्ति विषयमिति तु निर्विवादम् । अथात्रेति । अत्रेति पदं नाडीवित्यर्थकम् । तथाच यत् पूर्वोक्तं दहरं पुण्डरीकम् , तदत्र भवति, यत्र पुण्डरीके जीवः सुषुप्तो भवतीत्युच्यते । तदभावाधिकरणे, " नाडीपुरीततौ प्रसादखट्वास्थानीयो" इति श्रीभाष्यानुरोधेन हितानाडयधिकरणकपुरीतद्गतत्वस्य सुषुप्त्या धारहृदयकोशेऽवधारणात् । इदमेव नाडीगतं परे कोशे इति कथ्यते समनन्तरम् । -

. .