पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

को. २. - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अथ पौर्णमास्यां पुरस्ताचन्द्रमसं दृश्यमानमुपतिष्ठत्तैतयैवावृता, 'सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि । प्रजपतिर्बाह्मणस्त एक मुखम् : तेन मुखेन राज्ञोऽसि । तेन मुखेन मामन्नादं कुरु । राजा त एकं मुखम् ; तेन मुखेन विशोऽत्सि । तेन मुखेन मामन्नादं कुरु । श्येनस्त एकं मुखम् । तेन मुखेन पक्षिणोऽत्सि । तेन मुखेन मामन्नादं कुरु । अग्निष्ट एकं मुखम् । तेनेमं लोकमत्सि; तेन मुखेन मामन्नादं कुरु । त्वयि पञ्चमं मुखम् । तेन मुखेन सर्वाणि भूतान्यत्सि; तेन मुखेन मामन्नादं कुरु । माऽस्माकं प्राणेन प्रजया पशुभिरपक्षेष्ठाः । योऽस्मान् द्वेष्टि, यञ्च वयं द्विष्मः, तस्य प्राणेन प्रजया पशुभिरपक्षीयस्वेति । दैवीमावृतमावर्त आदित्यस्यावृतमन्यावर्त इति दक्षिण बाहुमन्वावर्तते । ॥ ९ ॥ अथ संवेश्यन् जायायै हृदयमभिमृशेत् , ' यत् ते सुसीमे हृदये श्रितमन्तः प्रजापतौ । तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगाः' इति । न ह्यस्मात् पूर्वा प्रजा प्रैतीति । ॥ १० ॥ अथ प्रोष्याऽऽयन् पुत्रस्य मूर्धानमभिजिघ्रेत् , 'अङ्गादङ्गात् संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शत' मिति; नामास्य दधाति । 'अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । तेजो (वेदो) वै पुत्रनामासि स जीव शरदः शत' मिति ; नामास्य गृह्णाति । अथैनं परिगृह्णाति, 'ये प्रजापतिः प्रजाः पर्यगृह्णात् तदरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति । अथास्य दक्षिणे कर्णे जपति, 'अस प्रयन्धि मघवन्नृजीषि' न्निति । 'इन्द्र श्रेष्ठानि द्रविणानि धेही' ति सव्ये । शुक्लपक्षप्रथमचन्द्रकलोपस्थानमुक्तम् । तत्र पूर्णिमायां पूर्णचन्द्रोपस्थानमन्नादत्वफलकमाह अथ पौर्णमास्यामिति । पञ्चमुखोऽसीति । सोमस्य, ब्राह्मणराजश्येनाग्निरूपाणि मुखानि स्वमुखश्चेति पञ्च मुखानि । (९: एवं सर्वजितः कौषीतकेपासनत्रयमुक्तम् । अथ जायामरणात् प्रागपत्यामरणफलं किञ्चिदाह अथ संवेश्यनिति । संवेश्यन् संवेक्ष्यन् = संगंस्यमानः । (१०) नामास्य दधातीति । —जीव शरदः शत मित्येतदनन्तरं पुत्रनामोच्चारयतीत्यर्थः । प्रोषितागतकर्तृकं पुत्रघ्राणादिकमाह अथेति । (11) "