पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म. ४.] श्वेताश्वतरोपनिषत् उपक्रमे 'देवात्मशक्तिं स्वगुणैः निरूढाम् इति ब्रह्मात्मकाजाया एवं प्रतिपादितत्वात् । तैत्तिरीये, 'अणोरणीयान् महतो महीयान्'इति ब्रह्म प्रस्तुत्य, 'सप्त प्राणाः प्रभवन्ति तस्मात् इति प्राणोपलक्षितसकलप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्म गोऽपरिणामितया सकलप्रपञ्चोपादानत्वं न संभवतीति शङ्कावारणाय पठितस्यास्य मन्त्रस्य ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाच्च ब्रह्मास्मिकैव प्रकृतिरजामन्त्रप्रतिपाद्या । नन्वाकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासंभवेन ब्रह्मात्मकत्वासंभव इत्याशङ्क्याह, “ कल्पनोपदेशाच्च मध्वादिनदविरोधः " | कल्पनं सृष्टिः । 'धाता यथा पूर्वमकल्पय ' दिति प्रयोगदर्शनात् । 'अस्मान्मायी सृजते विश्वमेतत् । इति मायाशब्दशब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनादित्यर्थः । प्रकृतेरब्रह्मात्मकत्वे च तस्या, 'अस्मान्मायी सृजते विश्वमेतत् । इति प्रतिपादितब्रह्मोपादानतानिर्वाहकत्वाभावात् तस्याः ब्रह्मात्मकत्वं सिद्धम् । अपृथक्सिद्धाधारत्वमात्रेणाप्यात्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं संभवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् । मध्वादिवत् । अत्र मधुशब्देन, ' असावादित्यो देवमधु ' इति निर्दिष्ट आदित्य उच्यते । आदित्यवदित्यर्थः । यथा आदित्यस्य, 'नैवोदेता नास्तमेता' इत्यकार्यतया श्रुतस्यैव, ‘य आदित्ये तिष्ठन् ' इत्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरप्युपपद्यते ब्रह्मात्मकत्वमिति स्थितम् । प्रकृतमनुसरामः। (५) उपक्रमे इति । अनेन ज्योतिः उपक्रमे यस्या , यन्निरूपणारम्मविषयीभूतं ज्योतिः ज्योतिरुपक्रम्य तन्मुखेनैव निरूपतेयं प्रकृतिरित्यपि सूत्रार्थवर्णनं सूचितम् । ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वमिति । ननु यत् यदुपादानकम् , तत् तदन्तर्यामिकमिति व्याप्स्यभावात कथमिदमिति चेत् - ब्रह्मात्मकत्वं नाम तदपृथक्सिद्धत्वमित्यविज्ञाय, मृदात्मको घट इति मृदुपादानके तदात्मकत्यव्यवहारवत् अयं व्यवहार इति बुद्धया शङ्का ; अपृथक्सिद्धाधारत्वप्रतिबोधनेन परिहार इति । यद्वा ज्योतिरुपक्रमेति पदं ब्रह्मोपादानकत्वार्थकं सत् ब्रह्मात्मकत्वलक्षकमित्युक्तम् । अजायमानायाश्च प्रकृतौ ब्रह्मोपादानकत्वाभवात् तन्मुखेन ब्रह्मात्मकत्वमत्र कथमुच्यत इति शङ्का । परिहारस्तु ज्योतिरुपक्रमात्वं नाम ज्योतिरधीनोत्पत्तिकत्वम् । तत प्रकृतेरक्षतम् , महदादिरूपेण परिणामरूपोत्पत्तिमत्त्वात् । तथाच अजागतं लोहितादिरूपबहुप्रजारूपभवनम् अजामन्त्रोक्तं ब्रह्माधीनमिति सौत्रेण ज्योतिरुपक्रमेति पदेनोच्यत इति । इयश्च ज्योतिरधीना उत्पत्तिः कारणावस्थायामपि ब्रह्मात्मकत्वं गमयतीति अब्रह्मात्मकाजापक्षः सांख्यसंमतः शमितो भवतीति । (५