पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.२. युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः॥५॥ अग्निर्यत्नाभिमथ्यते वायुर्यंत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र संजायते मनः ॥ ६ ॥ सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । तत्र योनिं कृण्वसे न हि ते पूर्निमक्षिपत् ॥ ७ ॥ युजे वामिति । दिव्यस्थानस्थिताः सबै ब्रह्मपुत्राः मत्प्रार्थनां शृण्वन्तु । सूरेः नित्यसूरिकर्तृका स्तुतिपथादनपेतत्वेन पथ्या स्तुतिः । वां पूर्व्यं-वः पूर्वमित्यर्थः । वचनव्यत्ययश्छान्दसः --- सा' तादृशं ब्रह्म यथा प्राप्नोति, एवं युजे योगाय - ब्रह्मप्राप्तये इति यावत् -- मया कृतः विश्लोकः विविधः श्लोकः स्तोत्ररूप: एतु प्राप्नोतु । नित्यसूरिकृतां स्तुतिं यथा भगवानङ्गिकरोति, एवमङ्गीकरोत्वियर्थः। ततश्च योगप्रवृत्तेः प्राक् भगवत्स्तुतिः कर्तव्येत्युक्तं भवति ।(५)

योगमारभमाणस्य शीतोष्णदेशः परिहर्तव्य इत्याह अग्निरिति । अभिमथ्यते अभितो निवार्यते । अधिरुध्यते आधिक्येन रुध्यते । वायुर्यत्र न वातीत्यर्थः । सोमशब्देन हिमं लक्ष्यते । अतिशयेन रिच्यते निरस्यते । तत्र मनः प्रत्यक्पवणं जायत इत्यर्थः । (६)

सवित्रेति । एवं गुरुप्रणामभगवस्तुतिप्रसन्नेन सवित्रा कृतेन प्रसवेन अनुज्ञया -- तदनुज्ञातस्सन्निति यावत् --- पूर्व्यं पूर्वपृष्ट (श्रेष्ठं) ब्रह्म जुषेत सेवेत-ध्यायेदिति यावत् । तत्र परमात्मनि योनिं स्थानं----मनस इति शेष:---- कृण्वसे कुरुष्व । तथासति ते पूर्तिं मनोरथपूर्तिं तत् ब्रह्म नाक्षिपत् न क्षिपति । न निरस्यतीत्यर्थः । लडर्थै लङ् । (७) 1. सः. वः पूर्व मिति । पुत्रभूतयुष्मदपेक्षया पूर्वभूतमित्यर्थः । नित्यसूर्यपेक्षया ब्रह्मणः पूर्वत्वञ्च तेषां तदनुत्पन्नत्वेऽपि तदधीनस्वरूपस्थितिप्रवृत्तिकत्वात् । नमोमिः प्रणामैः सहेत्यर्थः । विश्लोक एतु पथ्येव सूरेः। असमर्थकर्तृकत्वादपथ्योऽपि श्लोकः सूरिकर्तृकपथ्यस्तुतिवद् भावनीय इति नैच्यानुसंधानम् । देवपरिष्टुतिभूतायां मह्यां ध्यानोपयोगि स्थलमाह अग्निरिति । तत्र योनिं कृण्वसे इत्यस्य पूर्वमन्त्रोक्तदेशे स्थानं परिकल्पयेत्यर्थोऽपि घटते । एवश्चास्य मन्त्रस्य पूर्वमन्त्रानन्तर्ये औचित्यम् । -....- -