पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. १.] श्वेताश्वतरोपनिषत् ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्य(प्य)कर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥९॥ कर्मलेपाभावात् , स्वसंयुक्ततया प्रकृतिभरणेऽपि अपहतपाप्मत्वात् ' प्रकृतिसंबन्धप्रतिभटः तत्प्रतिभटज्ञाने विषयश्चेति निर्गळिनार्थः। (८)

परस्परवैलक्षण्यमेव प्रपञ्चयति ज्ञाज्ञाविति । पूर्वनिर्दिष्टयोर्मध्ये एकः सर्वज्ञः अत एव ईशश्च । अपरस्तु अज्ञोऽनीशश्च । उत्पत्तिराहित्यं तु द्वयोरपि समानम् । ईशनीशाविति दीर्घाभावः छान्दसः । भोक्तुः जीवस्य भोगरूपप्रयोजनयुक्ता उत्पत्तिरहिता काचनान्या प्रकृतिरित्यर्थः । एवं तृतीय (त्रितय ! ) मुत्पत्तिराहित्येन समानमपि परस्परं विलक्षणमित्यर्थः । ननु प्रकृतेः जीवभोगोपकरणत्ववत् परमात्मनोऽपि भोगार्थत्वं कुतो न भवेत् । प्रत्युत एकैकशरीरजीवभोगार्थत्वे 'सकलशरीरकपरमात्मभोगार्थत्वमवर्जनीयमेवेति । अत्राह अनन्तश्चति । विश्वशरीरकस्यापि परमात्मनः, 'नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते ' इत्युक्तरीत्या सत्यकामत्वाद्यनन्तगुणाश्रयस्य निरपेक्षस्य जीववत् कर्मफलाभिसन्धिपूर्वककर्तृत्वाभावान्न तद्भोगार्थत्वं प्रकृतेरिति भावः । एतादृशवैलक्षण्यज्ञानस्य फलमाह- त्रयमिति । एतत् त्रयं यदा विन्दते परस्परवैलक्षण्येन दर्शनसमानाकारध्यानेन 1. पाप्मतया... अपरश्च. 3. अनन्त. 4. र्थत्वं त्ववर्ज, 5. त्रयं सत्यमेतत् । भावादिति। अहं मोक्तेल्याकारकभाववत्वादित्यर्थः । तादात्विकक्षुद्रभागप्रावण्येन निषिद्धस्य, पाश्चात्यप्रकृष्टभोगलिप्सया च काम्यस्य तेनानुष्ठिततया कर्मवेष्टितत्वादिति भावः । एवमवश्यानुभोकव्यशुभाशुभकर्मनिगडबद्धोऽपि यत् मुच्यतेऽननुभुज्येव तत्फलजातम् , तत्र देवस्य कारुण्यमेव कारणमित्युच्यते झात्वा देवमित्यादिना । सर्वमिदं विव्रियत उत्तरमन्त्रं । (८) ज्ञाज्ञाविति । अज्ञत्वात् जीवः प्रतिकूलमनुकूलच्च प्रपञ्चं भावयन् रागद्वेषोपप्लुतः कर्मपरवशः स्वयमनीशो बन्धं प्रतिबन्धुम् । अमिज्ञतमस्तु देवो न तथा । भोक्तृभोगार्थयुक्तेति । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इत्युक्तलक्षणं भोक्तारमेव भोजयेदजा; न पुनः शरीरान्मुक्तम् , जहाति ह्येनां भुक्तमोगामजोऽन्यः । नतरां निर्मलं परमात्मानमिति । अनन्तश्चेति । न केवलं ज्ञः, अपहतपाप्मत्वसत्यसंकल्पत्वाद्यनन्तगुणश्च, त्रिविधपरिच्छेदरहितश्च, विष्णुत्वादनन्तपदव्यर्थभूतश्चेति । दर्शनसमानाकारध्यानेनेति । ननु देवस्य तादृशध्यानविषयी.