पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४४ हैमशब्दानुशासनस्य भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमा- नाद्धातोः पुरावुपपदे अद्यतनी वा स्यात् । अत्रत्सुरिह पुरा छात्राः । पक्षे, अवसन् , ऊखुर्चा । तदाऽभाषिष्टराई घवः पक्षे, अभाषत, बभाषे ।। १५ ॥ स्मे च वर्तमाना । ५। २ । १६ । । भूतानद्यतनेऽर्थे बसतीनाद्धातोः स्मे पुराssदौ चोपपदे वर्तमान स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽहं वर्णाः॥ १६ ॥ ननौ पृष्टोक्तौ सर्वोत् । ५ । २ । १७ ॥ ननवुपपदे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद् धातो र्वर्तमानेव वर्तमाना स्यात् । किमकार्षीः कटे चैत्र । ननु करोमि भोः, ननु कुर्वन्तं मां पश्य ।। १७ ।। न-न्वोर्वा । ५ । २ । १८॥ न्घोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना स्यात्, सा च सद्धम् । किमकार्षीः कटं चैत्र १ न करोमि भोः, न कुर्वन्तं मां पश्य, नाकार्षम् । नु करोमि भोः १ जु कुर्वाणं मां पश्य, न्यकार्षम् ॥ १८ ॥ सति । ५। २ । १९ । ' वर्तमानार्थाद् धातोर्वर्तमाना स्यात् । अस्ति कूरं , पचति, मांसं न भक्षयति, इहाधीमहे, तिष्ठन्ति पर्वतः । शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ।। । १ सद् वर्त्तमान, तद्वत् । २ भविष्यति काले तु स्यसहिते शतृ-आनशौ भवतु इति भाव ।