पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ॥ [ प्रस्तावना । भारतीयसुद्रणालयेषु अक्षरयोजका प्रायेण असस्कृतज्ञाः प्रमा दिनश्च भवन्ति । तेषामनुग्रहात् प्रयत्नशीलेनाऽपि विदुपा सम्पादिते संस्कृतग्रन्थे बत मुलभा अशुद्धयः स्युरिति खेदावहमस्ति । मयाऽस्य नैकङ्कत्वः शृसद्मनि पत्राणि शोधितानि । प्रस्तुतपुस्तकसम्पादने परिशिष्टादिघटने चात्र वर्षत्रयभस्वीकृतापरमुख्यकार्येण मथा ल च धानं भूयान् प्रयासः सेवितस्तथापि मानवयोग्यानि स्वछनान्यत्र दृष्टिमार्गमागच्छेयुरतदा क्षमापरैः क्षन्तव्यः सूचयितव्यश्चऽयं जनः । विविधपथा समुपयुक्तमिमं श्रन्थमवधारयन्तु धीधनाः, पठन्तु पाठयन्तु च पाठकाः, विशन्तु बिमर्शकाः, प्रेक्षन्ता प्रेक्षावन्तस्तेन च सकल अपि सफलयन्तु कर्तृ--सम्पादक-प्रकाशकपरिश्रममिति । ग्रन्थेऽत्र बुद्धिदोपाद्वा दृष्टिदोषात् स्वरादितः । स्खलितं दृश्यते यत् चेत् , तच्छोध्यं धीधनैर्जनैः । निवेदकः --- हिमांशुविजयः ( अनेकान्ती ) @8