पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


 न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥
न शब्दो न रूपं न च स्पर्शको वा
 तथा नो रसो नापि गन्धो न चान्यः ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ।। ८८७ ॥
न सद्द्रव्यजातं गुणा न क्रिया वा
 न जातिर्विशेषो न चान्यः कदापि ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
न देहो न चाक्षाणि न प्राणवायु-
 र्मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ।। ८८९ ॥
न देशो न कालो न दिग्वापि सत्स्या-
 न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
एतद्दृश्यं नामरूपात्मकं यो-
 ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं
 कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ।।
अध्यस्तनामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥