पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः खण्डः अगिरसगौतमानां त्र्यार्षेयः अगिरसऽऽयास्य गौतमेति होता गौतमवत् अयास्ववद् अंगिरोवदित्यध्वर्यु । १ ।। शारद्वतानां त्र्यार्षेयः आंगिरस गौतम शाद्वनेतिं होता शरद्वतः गौतमवत् अंगिरोवदित्यध्वर्युः ॥ २ ॥ कौमंडगौतमानां पश्चार्षेयः आंगिरसौचस्थ्यकाक्षीवत गौतम कौमण्डेति होता कुमण्डवत् गौतमवत् कक्षीवतवदुचथ्यवत् गिरो वदित्यध्वर्युः ॥ ३ ॥ दीर्घतमानां पञ्चाषेयः आंगिरसौवध्य काक्षीवत गौतम दैश्यैतमेति होता दीर्घतमवन् गौतमव कक्षीवतवद् उचथ्यवत् अंगिरोवदित्यध्वर्युः ॥ ४ ॥ कारेणुपालानां व्योषेपः अगिरस गौतम कारेणुपालेति होता करेणुपालवत् गौतमवत् अंगिरोवदित्यध्वर्युः ॥ ५ ॥ औशनसगौतमानां व्यायः अगिरस गौतम औीशूनसेति होता उशनसवत् गौतमवत् अंगरोवदित्यध्वर्युः ॥ ६ ॥ वामदेवानां त्र्यार्षेयः आंगिरस गौतम वामदेवेति होता वाम देववत् गौतमवत् अगिरोवदित्यध्वर्युः ॥ ७ ॥ इति एकादशप्रक्षे चतुर्थः खण्डः ।