पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। २ ।। गृहस्थाश्रमी द्वे यज्ञोपर्वी पल्या शयीत ।। ३ ।। (धर्मसूत्रे तृतीय: प्रश्न:) चैणवं दग्डं कमण्डलुश्च धारय ।। १ आर्द्धपादः प्रत्यगुत्तरशिराश्च न स्वपिति ।। ४ ।। अद्रेत्यादि । चकारात् नोऽशुवि न स्वपिति । ऋतुरात्रिषु स्वभार्यामुपगच्छेद् ॥ ५ ॥ आदौ त्रिरात्रमृतुमतीगमनसहाऽसनशयनानि वर्जयेत् ॥ ६ ॥ परदारान् न गच्छेत् ।। ७ ।। पदारगमनादायुश्श्रीब्रह्मवर्चसं विनश्यति ॥ ८ ॥ भार्यया सह नाश्वानि ।। ९ ।। अश्क्षन्तीं तां नृम्भमाणां नमाश्च नाचलोकयेत् ।। १० ।। असत्यवादं वर्जयति ॥ ११ ॥ असत्यात्परं पापं सत्यात्परो धर्मश्च भाति ।। १२ ।। सर्वप्रणिहितोऽद्रोहेणैव जीवेत् ।। १३ ।। शुद्धार्थवान् कुलधान्यः कुंभीधान्योऽश्वस्तनिकों वा स्यात्।१४