पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवन्ति भावितात्मानो मत्कर्मकरणक्षमः । सर्वधा 'येनखस्ते वैखनसा' इति वेदतः । द्वैखानसाश्शुद्धास्सर्वकर्मसु पूजिताः । ततः प्राह मुनिश्रेष्ठस्तमेवं वादिनं हरिम् । श्रीविखनाउवाच-भगवंस्त्वप्रसादेन कर्म साङ्गं यथोदितम् । सर्वेषां मत्कुलीनानां भक्त्येव न संशयः ॥' इति अतोऽत्र श्रुत्युक्तमार्गेण वैखानसानां मृष्टयादिकं, भद्धारकभगवयजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम् अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते भानुशामनिकपर्वणि ८५ तमे अध्याये भृग्वदिमहर्षीणां वैखानसानाञ्चोत्पतिः निरूपिता । यथा वसिष्ठः– ‘अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । पितामहस्य यकृत ब्रह्मणः परमात्मनः । देवस्य महतस्तात! वारुणीं बिअतस्तनुम् । ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः ॥ आजम्मुर्मुनयस्सर्वे देवश्वामिपुरोगमाः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्ध मूर्तिमान् । मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चागमत्तत्र पदक्रमविभूक्तिः । लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः । ओङ्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा । तथा वेदास्सोपनिषदो विद्यास्सावित्र्यथापि च । भूतं भव्यं भविष्यच दधार शिरसा शिवः । सक्षुहावात्मनाऽऽत्मानं स्वयमेव तथा प्रभो।