पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ वी मीनिवासमशित-तात्पर्यचिन्तामणिसहितन् उद्दधान्यां प्रधानजलपटसमीपे । [तृतीय प्रश्न पेषण्येोरुभगेः 'दृषदे’ इति ।। १४ ।। द्विः । मन्त्रावृतिः । उल्लूखलमुसलयोः ‘वनस्पतिभ्य ' इति ।। १५ ।। द्विः । शपें ‘ओषधीभ्यः' इति ।। १६ ।। वास्तुपृष्ठ 'झुनाश्च पतितानाञ्च श्वपचां पापरोगिणाम्। चयसा कृमीणाञ्च भूमाव वपाम्यहम्' इति बलिशेषं निर्वपनि ।। १७ ।। वास्तुपृष्ठ । गृहस्य पश्चिमभागे । नतः गृह्यपरिशिष्टोक्तश्वानवलिं दयात् । यथा - श्वानै वै श्यामशबलै वैवस्वतकुलोद्भवौ । ताभ्यां बलिं प्रदास्यामि रक्षेयां पथि सर्वदा ॥ इति ते काकाः प्रतिगृह्णन्तु भूमौ पिंडं मयाऽर्पितम् ।। श्वभ्यश्च वायसेभ्यश्च दद्यादेभ्यो बलिं पृथक् । सर्वत्रालेपनं भूमेर्बलिश्च परिषेचनम्' । इति एवं कर्तुमशक्तस्य अग्नेः पुरतः मण्डलं प्रदक्षिणमुपलिप्येत्युक्तम् । शुहः- ‘अग्नेः पश्चिम आलिप्य तत्तत् स्थानमनुस्मरन् । मध्यादि तडलीन् दद्यात् सर्वान् प्रागुदगन्तकान् । परिषेकोऽन्त एकन्स्यात् तदशक्ताक्यं विधिः ? ॥ इति किय- 'आयुकामो दिवारात्रं मुवाकारं बठिं क्षिपेत् । आयुरारोग्यकामो वा ध्वजकारं बलिं हरेत् ।