पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखित-तात्पर्यचिन्तामणिसहितन् [तृतीय वने ‘प्राक् स्थालीपाकतो वह्निनाशे वै दुर्मुहूर्तके । विवाहे विधिहीनेऽपि तामेव पुनरुद्धहेत् ॥ अम्युत्पत्तिं केचिदाहुः प्राक् स्थाल्या अपि नाशने । न दानं नैव वरणं न प्रतिग्रहणं तथा । त्रिरात्रञ्च क्रतं न स्यात् पुनरुद्धाहकर्मणि ' । इति क्चनात् । ततः प्रभृति गार्हस्थ्यं धर्भमनुतिष्ठतीति विज्ञायते ॥ ९ ॥ गार्हस्थ्यधर्ममिति । आग्नेयस्यालीपाकस्यौपासनारंभकत्वात् औपासन वैश्वदेवादिगर्हस्थ्यधर्ममनुतिष्ठतीत्युक्तम् भवति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयेण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने चतुर्थः खण्डः ।