पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्:] श्रीवैखानसगृह्यसूत्रम् अत्रं पर्युषितं भोज्यं स्नेहातं चिरसंस्थितम् । अस्नेहा अपि गोधूमयक्गोरमविक्रिया ' । इति शाहः- 'अपूपास्सक्तवो धानाः तकं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं भाण्डलेपं न चेद्भवेत् । । इति

  • अन्तर्दशाहे गोक्षीरं विवल्मायाश्च गोः पयः ।

घृतात्फेनं घृतान्मण्डं पीयूषमथवाद्रेगो सगुडश् मरीच्यक्त तथा पर्युषितं दधि ' । इति अवालुकगतं तोयमस्नेहासिक्तमोदनम् । असूत्रप्रथितं पुष्पे त्रयं पर्युषितं स्मृतम्' । इतिं 'यस्तु पाणितले भुक्तं यस्तु फूत्कारसंयुतम् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने । नावासा नाशिरा न चायज्ञोपवीतवान् । न प्रसारितपादस्तु पादारोपिनपाणिमान् । न बाहुसव्यसन्धिश्च न च पर्यङ्कमास्थितः। न वेष्टितशिराश्चापि नोत्सङ्गकृतभाजनः । स नैकवस्रो दुष्टमध्ये सापानत्कस्सपादुकः । न चर्मोपरिसंस्थश्च चर्मावेष्टितपार्थवान्' ॥ प्रासशेषं न चाश्रीयत् पीतशेषं पिबेन्न च । शाकमूलफलेक्षणि दन्तभेदैर्न भक्षयेत् ॥

  • वृथा न विकिरेद नोच्छिष्टः कुत्रचिङ्गजेत् ।

शभुक्तावशिष्टन्तु नाद्याद्भाण्डस्थितन्तु वा । न भिन्नकांस्ये सन्ध्यायां श्राद्धान्ने शिशुभिस्सह । दम्पत्योर्मुक्तशेषन्तु भुक्ता चान्द्रयणं चरेत् । २७७