पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्री श्रीनिवासमखिकृत-तात्पर्यबिन्तामणिसहितम् [द्वितीय प्रश्न आपो वै सर्वा देवताः सर्वार्थसाधकाः' 'आपो वा इदं सर्वमित्याद्याः श्रुतयः ॥ वेद्यभावे पृथिवी प्रतिनििधः । यव वेद्यां विहितं कर्म नदलाभे पृथिव्यामेव कुर्यात्। विहितसम्भाराभावे वनस्पतयः। यत्राष्टकादौ पशुर्विहित तस्रौषयः। ओषधपिष्टकृतापूपादय इयर्थः । स्मृतिः – 'वेद्यर्थं पृथिवी सृष्टा सम्भारार्थे वनस्पति । पश्चर्थमोषधिग्रह्मा इति वेदानुशासनम्' । इति काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिकं तु सः । काम्ये व्यतिक्रमादूर्व नित्ये प्रतिनिधिं विदुः । न च प्रतिनिधिं देशकालयोरित्यथापरे । न भावय प्रतिनिधिर्न भावान्तरमिष्यते ! ॥ इति इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्न सप्तदशः खण्ड