पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् श्रुतिः 'यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापनौ दधाति' इति । अतः पवित्राभ्यामेवोपुनाति । पुनराहारमुपुनाति, एवमेव प्राणापानौ संचरतः । वेदेन शोधयित्वेति । मन्त्रेण शोधनमसुरनि वृत्यर्थम् । श्रुतिः-'वेदेनैव देवा असुराणां वितं वेद्यमविन्दन्त, तद्वेदस्य वेदत्वम् 'इनि । वेदलक्षणं श्रौते उक्तम्, ‘वेदोसी 'ति वत्सज्ञ त्रिवृच्छिर सं वा दमै वेदं कृत्वा अप्रान् प्रदेशे परिवासयतीति । अन्तरितमित्यादि ।, श्रुतिः अन्तरित'रक्षोऽन्तरितमित्याह । रक्षसामन्तर्हित्यै' इति च । [प्रथम प्रश्ने दक्षिणतोऽङ्गारं गायत्र्या व्यस्य तयैव चरुस्थालीमधिश्रित्य 2} तयैव - गायत्र्यैव । वरुस्थालीमिति । 'यजमानो वै पुरोडाशः इति श्रुतेः, यमुत्र पुरोडाशा न इह चरवः'इति बोधायनवचनाच दक्षिण इत्युक्तम् इमवत् फलम् । दभॉन्कनंत्यादि । श्रुनि: । 'यच्छूनं हविरनभिधारितम् अ.ि द्योत्यति । अभ्थबैनद्धारयनि । अथो देवत्रैवैनद्रमयति । इति । * अभिघायों द्वामयति देवत्रैवैनद्रमयति । इनि च । अतारयतीनि प्रागादिप्यनुपपन्नत्वा दुत्तर एवावतारणम् । श्रुतगपि । 'यत्प्राचीनमुद्राम्येत् । यजमानं शुचा ऽर्पयेत् । यद्दक्षिणा, पितृदेवत्यं स्यात् । यत्प्रत्यक्, पती' शुचाऽर्पयेत् । उदीचीनमुद्वामयति । एया वै देवमनुष्याणाँ शान्ना दिक् । तामेवैनदनूद्वासयति शान्यै ' इति । पवित्रेणाऽज्यं :ात्रे विरुन्यूय ‘घर्मोऽ'सीनि ग्रन्थिं विसृज्य उत्तर पश्चिमे निधाय अद्भिः प्रेक्ष्य 'आप्यायन्ता'मिति पवित्रं जुहोनि ।। ५ ।। उत्तरपश्चिमेति । 'प्राणापानौ पवित्र 'मिति श्रुनेः पवित्रस्य वायु रुत्वादुत्तरपश्चिम इत्युक्तम् । आप्यायन्नामित्यादि । श्रुतिः । 'आप्यायन्ना माप ओषधय इत्याह । आप वौषधीराप्याययति । मरुतां पृषतयस्येत्याह । मरुगो वै वृष्टया ईशते । वृष्टिमेवावरुन्धे । दिवं गच्छ ततो नो वृष्टिमेरयेत्याह । वृष्टिर्वे द्यौः । वृष्टिमेवावरुन्धे 'इति ।